Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

प्रथमः लेखः

सर्वेभ्यो नमो नमः। अत्र प्रतिसप्ताहं यन्मनसि स्फुरति तस्मिन् विषये लिखेयमिति चिन्तना साम्प्रतम्। यावच्छक्यं किमप्यत्र स्थापनीयमिति चिन्त्यते परन्तु कदाचित् कार्यवशाद् वा अन्यकारणाद् वा किमपि स्थापयितुं न शक्नुयाम्। परन्तु प्रारब्धमुत्तमजना न परित्यजन्तीति उक्तिः मनसि निधाय आरभ्यते मम blogging.

अत्र मुख्यतया संस्कृतभाषया लिख्यते परन्तु कदाचित् आङ्गलभाषयापि। विषयस्तु संसकृतमपि भवितुमर्हति सामान्यविषया अपि भवितुमर्हति।

तत्र भवतां प्रश्नाः वा प्रतिस्पन्दा वा वर्तन्ते चेन्नूनं पृच्छ्यताम्। आस्तां तावत् । अधुना मन्मनसि किमस्तीति ज्ञायत एव। अग्रिमे सप्ताहे नूतनं किमपि प्रकाश्यते।

शुभं भूयात्।


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading