Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

Krishna JanmAshtamI – Meditating Upon Child Krishna

अद्य श्रीकृष्णजन्माष्टमी अतः कृष्णस्य विषय एव लेख्यमिति निर्णीतम्। कृष्णं वन्दे जगद्गुरुमिति प्रसिद्धं वाक्यं जानीमह एव। भगवता कृष्णेन गीतोपदेशः कृतः अर्जुनाय सर्वेभ्यश्चातः गीताचार्यः जगदाचार्यः इति स ख्यातः। परन्तु सामान्यतया कृष्णः इत्युक्ते बालकृष्ण एव स्मर्यते। तस्य बाललीला श्रीमद्भगवते, महाभारते, नारायणीये स्फुटं विवरिता। अपि च अनेकश्लोकाः रचिताः तमुद्दिश्य उदाहरणाय बालमुकुन्दाष्टकम्, कृष्णकर्णामृतम्, गीतगोविन्दम, मुकुन्दमाला इत्यादयः। श्रीवैष्णवाचार्यैः स्वामिवेदान्तदेशिकैः यादवाभ्युदयमिति महाकाव्यं व्यरचि। सर्वेषां हृद्धारी बालकृष्णः एव।

अपत्यहीनानां दीनानां पितृणनिवारणाय बालकृष्णसपर्या क्रियते। तेन वन्ध्या वा वीर्याभावपुरुषो वा आपन्नसत्त्वा भवेदिति विश्वासः। तादृशस्य कृष्णस्य हृद्यं पद्यं किञ्चिदवलोकयाम। बालमुकुन्दाष्टकात् पद्यमिदं मह्यं बहु रोचते –

इन्दीवरश्यामलकोमलाङ्गमिन्द्रादिदेवार्चितपादपद्मम्।
सन्तानकल्पद्रुममाश्रितानां बालं मुकुन्दं मनसा स्मरामि।।

I fondly recall baby Krishna, with skin as dark and tender as a blue lotus, revered by Indra and the devas at His feet, granting the desires of devotees seeking progeny.”

प्रतिपदम् – इन्दीवरश्यामलकोमलाङ्गम्, इन्द्रादिदेवार्चितपादपद्मम्, सन्तानकल्पद्रुमम्, आश्रितानाम्, बालम्, मुकुन्दम्, मनसा, स्मरामि।

The anvaya, i.e., prose order, is easy since the padyam is already written in that format, so I am not repeating it

स्मरामि (अहम्)
कं स्मरामि – मुकुन्दम्
कीदृशं मुकुन्दम् – बालम् – यः बालकः अस्ति

कीदृशं बालम् – इन्दीवरश्यामलकोमलाङ्गम् – यस्य अङ्गं नीलपद्मवत् कृष्णवर्णीयम् अपि च कोमलम् अस्ति
इन्दीवरमिव श्यामलं कोमलं च – इन्दीवरश्यामलकोमलम्
इन्दीवरश्यामलकोमलं अङ्गं यस्य सः -> इन्दीवरश्यामलकोमलाङ्गः , तम्

कीदृशं बालम् – इन्द्रादिदेवार्चितपादपद्मम् – यस्य पादारविन्दे इन्दरादि देवाः नमन्ति।
इन्द्रः आदिः यस्य सः – इन्द्रादिः
इन्द्रादिः देवः – इन्द्रादिदेवः
इन्द्रादिदेवैः अर्चितम् – इन्द्रादिदेवार्चितम्
पादः पद्मम् इव – पादपद्मम्
इन्द्रादिदेवार्चितम् पादपद्मं यस्य सः – इन्द्रादिदेवार्चितपादपद्मः तम्

कीदृशं बालम् – आश्रितानां सन्तानकल्पद्रुमम् – यः पुत्रीयमानानां शरणागतानां कल्पवृक्षः इव वर्तते सः।
सन्तानार्थं कल्पद्रुमः – सन्तानकल्पद्रुमः, तम् ।

As a baby, Lord Krishna undoubtedly holds a special place in our hearts. On this Krishna Janmashtami, let us chant His name and invite prosperity into all our endeavors, for we know the saying, ‘न वासुदेवभक्तानामशुभं विद्यते क्वचित्’ (There is no inauspiciousness in the lives of devotees of Lord Vasudeva) Jai Krishna!


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading