I know that when I was learning voices, I was looking for some out-of-the-box sentences to translate, just for practice. Of course, there are many books available now, but sometimes a quick check doesn’t hurt. So, this post is about having 20 sentences in the active voice that can be converted to the passive as an exercise.
Here is the link to my previous post on voices – https://arabhatee.wordpress.com/2023/08/25/exploring-active-and-passive-voice-in-sanskrit-a-journey-into-कर्तरि-प्रयोगः-and-क/
एतानि नातिसरलानि नातिकठिनान्यपि। एतेषामभ्यासेनास्माकमवगमनं कियत् स्यादिति जानीमहे। उत्तरार्थं मम सम्पर्कः क्रियताम्।
अभ्यासार्थं सरलवाक्यानि।
१॰ रामः पाठम् अधीते।
२॰ हरिः पानीयं पिबति।
३॰ विष्णुः द्रुमं वीक्षते।
४॰ सीता पाकं पचते।
५॰ माता गीतं शृणोति।
६॰ भ्राता ग्रन्थालयं पादाभ्यां मित्रेण सह गच्छति।
७॰ दुहिता विपणिं ससन्तोषं याति।
८॰ शिशुः उच्चैः सर्वदा रोदिति।
९॰ वृक्षः जलं विनापि कथञ्चित् वर्धते।
१०॰ सा अन्नं हस्तेन स्थालिकातः खादति।
अभ्यासार्थमसरलवाक्यानि।
१॰ सः हस्तेन भक्तम् अत्ति।
२॰ भिषक् सभासु प्रतिसप्ताहं भाषते।
३॰ रावणस्य वाचम् आकर्ण्य सीता कम्पते।
४॰ पिता प्रत्यहं कार्यालयात् मन्दिरं गत्वा गृहं याति।
५॰ राधा कृष्णं स्मरन्ती गीतं गायति।
६॰ शिक्षकः मां पुनः पुनः प्रश्नेन पीडयति।
५॰ माता मधुरं श्रियै़ निवेदयति।
८॰ भागिनेय्या सह अहं वनालयं यातुम् इच्छामि।
९॰ उत्सवसमये पितामही सेवकेभ्यः नूतनानि वस्त्राणि ददाति।
१०॰ त्वं मां सर्वदा किमर्थं तर्जयसि?
As always, feel free to reach out to me through comments, X (formerly Twitter), or via email for answers.


Leave a comment