Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

Translating ‘Tirukkural’ into Samskritam: A Literary Exploration

अस्मिन् लेखे संस्कृताभ्यासाय मया किं क्रियत इति किञ्चिदुच्यते। पद्यानि छन्दसि बन्द्धुं मह्यं बहु रोचते। प्रथममनुष्टुपि प्रयतमानाहं तत:परमुपजातिषु वसन्ततिलकेति वृत्ते पद्यं रचयितुं प्रयते। तदनन्तरं मात्राछन्दो ज्ञातम्। ततो मात्राछन्द एव मम प्रियतममिति वच्मि मुख्यतया आर्या। :)

अधुना कानिचन तिरुक्कुरल्-पद्यानि आर्याछन्दसि रचितानि यदत्र प्रस्तूयते। तिरुक्कुरलिति श्रीवल्लभेन द्रमिडभाषया विरचितं कुरल्-काव्यं बहुप्रथितम् आभारतम्। तत् तु नीतिकाव्यमित्यपि वक्तुमीश्महे। ‘तिरुवल्लुवर्’ इत्यस्य संस्कृतनामैव श्रीवल्लभः इति वल्लुवरुल्लमिति द्रमिडपुस्तके व्यलेखि। अस्य पुस्तकस्य प्रणेता विद्वान् श्रीकेशवाययङ्गारिति प्रसिद्धो न्यायनिपुणो यो मम मातामहोपि। अद्य तस्य जन्मदिनमिति कारणेन अयं लेखः।

अत्र केवलं द्रमिडपद्यमपि च संस्कृतपद्यमेव विलिख्यते। एषां पद्यानां आङ्गलार्थः जालपुटे सर्वत्र लभ्यतेऽतः जिज्ञासवः तत्र वीक्षन्ताम्। संस्कृतानुवादने मया स्वाधीनता स्वीकृता मूलार्थं मनसि निधाय।

Thirukkural – 331
நில்லாத வற்றை நிலையின என்றுணரும்
புல்லறி வாண்மை கடை

Samskrit Translation –
अस्थिरलोकेस्मिन् नृप! विज्ञैर् जाड्यमिति कथ्यते स्पष्टम्।
क्षणविध्वंसी विषयो हि चिरस्थायीति धीरेव।।

Thirukkural – 596
உள்ளுவ தெல்லாம் உயர்வுள்ளல் மற்றது
தள்ளினுந் தள்ளாமை நீர்த்து

Samskrit Translation –
स्वान्ते विचारणा नः सततं श्रेष्ठा भवन्तु भव्याश्च।
विफलीभूताश्चेत् ताः गण्येत नहि विफलत्वेन।।

Thirukkural – 611
அருமை உடைத்தென்று அசாவாமை வேண்டும்
பெருமை முயற்சி தரும்

Samskrit Translation –
स्वायत्तीकुरुतेऽयं विधीमपि यः साहसेन दृढमत्या।
भगवति विश्वासेन च विघ्ने सत्यपि परिश्राम्यति।।

Thirukkural – 619
தெய்வத்தான் ஆகா தெனினும் முயற்சிதன்
மெய்வருத்தக் கூலி தரும்

Samskrit Translation –
दैवाद्विफलितकार्यश्चेदपि कश्चिन्नरेन्द्र तस्यायम्।
अविरतयत्नो नूनं तस्मै योग्यं फलं दद्यात्।।

इतोपि कानिचन पद्यानि संस्कृतेन विरचितानि। तानि अग्रे कदाचित् प्रकाश्यन्ते।

Once you understand the meaning of the padyams, you’ll realize that they exude positivity. So, on that note, let this week and all other weeks be filled with positivity for all of us!

शुभं सप्ताहो भूयात्।


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



One response to “Translating ‘Tirukkural’ into Samskritam: A Literary Exploration”

  1. […] पूर्वस्मिन् लेखे कानिचन पद्यानि प्राकशितानि यदत्र निशामयितुं शक्यते – https://arabhatee.wordpress.com/2023/09/23/translating-tirukkural-into-samskritam-a-literary-explora… […]

    Like

Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading