Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

In the Well of Ignorance: The Tale of the Swan and the Croaker in Sanskrit Literature

(English Translation at the end)

अस्मिन् लेखे पद्यं किञ्चित् स्वीकृत्य तत्र विद्यमानं सम्भाषणं वीक्षामहे। अस्य पद्यस्य रचयिता क इति न जाने परं तत्र नीतिस्सुष्ठु बोधितेति विव्रियते। 

कश्चिद् दर्दुरः प्रहौ दीर्घकालं पुरा वसति। अतो दर्दुरस्य लोकज्ञानं किमपि नास्ति यतोहि आजीवं प्रहावेव तद्वासः। तदा कस्मिंश्चिदहनि हंसपक्षी प्रहीसमीपं निषण्णः। अनयोर् मध्ये यद्भाषणं प्रवृत्तं तदत्र पस्तूयते।

हे पक्षिन्! आगतस्त्वं कुत इह सरसः तत् कियद्भो विशालं

किं मद्धाम्नोपि बाढं तदति शठ! महापाप! मा ब्रूहि मिथ्या।

इत्थं कूपोदरस्थश्शपति तटगतं दर्दुरो राजहंसं

नीचः प्रायः शठार्थो भवति हि विषमो नापराधेन हृष्टः।।

दर्दुरः (हंसमुद्दिश्य) – हे पक्षिन् । त्वं कुतः आगतः?

हंसः – मानससरसः (आगतोस्मि)

दर्दुरः – तत् कियत् भोः (इत्युक्ते कथं भवतीति विवक्षा)

हंसः – विशालम् 

दर्दुरः – मम धाम्नः अपि विशालं किम्?

हंसः – आं बाढम् तदति (निश्चयेन तस्मादपि विशालम्)

दर्दुरः – हे शठ! महापाप! मिथ्या मा ब्रूहि। (असत्यं मा वद)

प्रहेर् बहिर् नागतो दर्दुरो हंसवचस्सु शङ्कां प्रकटयति। नीचा एवमेवाज्ञानिनस्सन्तस्सज्जनवचांसि न मन्यन्ते’पि च तान् निन्दित्वा सन्तुष्यन्ति। एतादृश आचारो मास्तु यतोहि तदस्मत्कल्याणाय न कल्पते। ज्ञानवर्धनाय यद् शक्यं तत् कार्यमेवेति नीतिः।

चतुर्थपादे यल्लिखितमस्ति तदर्थान्तरन्यासे’न्तरभूतं भवति। अस्य पद्यस्य छन्दः स्रग्धरा।

So, the verse suggests that a person of low character often finds extreme delight in pursuing malicious objectives, and such an individual remains unaffected by feelings of remorse. For this, consider a conversation between a swan and a croaker. The croaker, having never ventured beyond its well, remains oblivious to the world outside. Despite the swan’s journeys from Manasarovar, it is accused by the croaker of lying about the existence of something larger than its well. In Tamil, we refer to this mindset as ‘kinatru thavali (கிணற்றுத்தவளை),’ denoting someone who lives in their own world, adamantly refusing to acknowledge reality to the extent that they even rebuff those offering sound advice!

Interestingly, in Tamil, the term ‘Manduka’ is employed as a reproachful expression to describe someone behaving foolishly!

अस्मिन् दीपावलिपर्वणि वयं कदापि न प्रहिस्थदर्दुरायामहे इति सङ्कल्पं कुर्महे। सर्वेभ्यो दीपावलिपर्वणश्शुभाशयाः। श्रियो’नुग्रहेण सन्तोषो मनश्शान्तिश्शुभं चैव भूयासुस्सर्वेषां जीवने सर्वदा।


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading