Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

Grammar Diaries – जुहोत्यादिगणस्य द्वित्वम्

Grammar Alert: Proceed at your own discretion. This derivation may not be essential for everyone, but if you’re a grammar enthusiast who relishes unraveling complexities and decoding linguistic intricacies, dive right in!

साहित्यविषये लेखन्त्या मया व्याकरणविषये लेख्यमिति चिन्तितम्। अतोस्मिन् लेखे व्याकरणांशः उल्लिख्यते। वयं सर्वे जानीमहे यद् धातूनां दश गणा विद्यन्ते इति। तेषु तृतीयो गणो जुहोत्यादिगण इति। सर्वेषां गणानां भिन्नविकरणप्रत्ययो विद्यन्ते। तृतीयगणस्य विकरणप्रत्ययो नास्ति परन्तु द्वित्वं वर्तते “जुहोत्यादिभ्यः श्लुः” इत्यस्मात् सूत्रात्। श्लु causes duplication of the root word. अस्मिन् विषये यन्मयापाठि तदत्रोल्लिख्यतेऽन्यथा प्रायो विस्मरेयम्। :)

अस्य गणस्य धातूनां गुणादेशो भवति इत्युक्ते इकारस्य एकारः, उकारस्य ओकारः, ऋकारस्य अर् भवति। कस्मात् सूत्रादिदं रूपं वा परिवर्तनं वेत्यपि मया नोल्लिखितमत्र।

१) दा-धातुं स्वीकृत्य क्रमेण रूपं साधयाम।
तिङ् प्रत्ययस्य योजनम् -> दा + ति
द्वित्त्वकरणम् – > दा + दा + ति
प्रथमाक्षरस्य ह्रस्वकरणम् -> द + दा + ति (अत्र तृतीयाक्षरमस्तीति कारणेनेतोपि परिवर्तिर् न भवेत्)
अन्तिमरूपम् -> ददाति (अत्र गुणादेशोपि नास्ति यतोहि ‘आ’ इत्यस्ति यस्य नास्ति कोपि गुणवर्णः)

२) भी-धातुं स्वीकृत्य क्रमेण रूपं साधयाम।
तिङ् प्रत्ययस्य योजनम् -> भी + ति
द्वित्त्वकरणम् – > भी + भी + ति
प्रथमाक्षरस्य ह्रस्वकरणम् (अपि च ततीयाक्षरं भवति)-> बि + भी + ति
अत्र गुणादेशः भवति यतोहि ‘भी’ इति इकारोस्ति -> बि + भे + ति
अन्तिमरूपम् -> बिभेति

परन्तु जुहोति इत्यत्र द्वित्वं कथमिति मन्मनसि प्रश्नः आसीत्। तत्र हकारस्य जकरादेशः इति ज्ञातम्।

तिङ् प्रत्ययस्य योजनम् -> हु + ति
द्वित्त्वकरणम्- > हु + हु + ति
अत्र गुणादेशः भवति यतोहि ‘हु’ इति इकारोस्ति -> हु + हो + ति
प्रथम-हकारस्य जकारादेशः – जु + हो + ति
अन्तिमरूपम् -> जुहोति

Please note that the forms listed above represent the basic structures, specifically in the present tense and in singular form. To grasp the final verb forms in other lakaras and vacanas, additional steps and sutras must be learned.

Now, don’t let this bog you down. You can absolutely be fluent in Samskrit without knowing these derivations. If you are even a teeny bit interested, then you can try to tread down this path to experience the complexity of the language. I reiterate that Samskritam is fun! Happy learning :)


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading