इयं कथा भल्लादेवविरचितभोजप्रबन्धे बहुप्रथिता।कदाचिद्भोजराजो राज्ये किं प्रचलतीति वेदितुं रात्रौ वेषान्तरं विधाय पथि समचरत्। तदा कस्मिंश्चिद्गेहे दीपो दृश्यते। तद्गेहसमीपं गतो राजा पत्नया अङ्के शिरो निधाय सुप्तं पतिमद्राक्षीत्। तयोर् दम्पत्योः शिशुस्समीपे क्रीडन्नग्नेस्समीपं गतः। तद्वीक्ष्य राजा भीतः परन्तु शिशोर् माता पतिं बोधयितुमनिच्छन्ती वह्निमेवाद्राक्षीत्। शिशुरपि वह्निं पस्पर्श परन्त्वहो आश्चर्यम्! शिशोः हस्तो न दग्धः परमयं सन्तोषेणाखेलत्।
परेद्युः राजा स्वसंसदि समस्यामदाद्विद्वद्भ्यः – हुताशनश्चन्दनपङ्कशीतलः। सर्वे विद्वांसो भ्रान्ताः। कथं वा हुताशनः चन्दनपङ्कः इव शीतलो भवेत्। तदप्राकृतिकः किल। तदा कालिदासस्सभां आजगाम। सम्स्येयं निशम्य सत्वरमिदं पद्यं व्यलेखि।
सुतं पतन्तं समवेक्ष्य पावके न बोधयामास पतिं पतिव्रता्।
तदाऽभवत् तत्पतिभक्तिगौरवाद् हुताशनश्चन्दनपङ्कशीतलः॥
तत्र तात्पर्यं किमित्युक्ते हुताशनस्तत्पतिव्रतायाः कोपं सोढुमनिच्छन्नस्याः शिशुं न दहति।पातिव्रत्यस्य तादृशं माहात्म्यम्। तत्पतिव्रतां वीक्ष्य भोजराज’तिसन्तुष्टो यतोहि तस्मिन् राज्ये ईदृक् पतिव्रता वर्तत इति।
अहल्या द्रौपदी सीता तारा मन्दोदरी तथा।
पञ्चकन्यास्स्मरेन्नित्यं सर्वपातकनाशनम्।। इति पद्यं सर्वे वयं जानीमहे।
केवलं पतिसेवनेन कापि पतिव्रता न भवेत्। अस्माकं सम्प्रदायमनुसृत्य भगवत्स्मरणं जपं च कुरुते चेदेव भगवदनुग्रहेण पातिव्रत्यशक्तिं प्राप्नुयात्। अतः प्रीत्या गृहपालनं भगवज्जपं च विधाय सर्वसम्पदं लभामहे। शुभं भूयात्।


Leave a comment