पिशुनः इति पुंसि “back-biter” इति वर्तते। पदमिदं विशेषणत्वेनापि प्रयुज्यते। पिंशतीति पिशुनः, तस्य भावः पैशुन्यमिति। द्रमिडभाषायां – “கோட்(ள்) சொல்லுவது – (kozh solradhu)” इत्यस्ति। तादृशः व्यवहारः मास्त्वेवेति पूर्वजानामस्माकं मतिः। तादृशव्यवहारेण किं भवतीति पद्येनोदाहृतम्।
परेषां क्लेशदं कुर्यान्न पैशुन्यं प्रभुप्रियम्।
पैशुन्येन गतौ राहोश्चन्द्रार्कौ भक्षणीयताम्।।
अन्वयः – परेषां क्लेशदं प्रभुप्रियं पैशुन्यं न कुर्यात्(कश्चित्)। पैशुन्येन चन्द्रार्कौ राहोः भक्षणीयतां गतौ।
अन्वयार्थः – अन्येषां क्लेशजनकं परन्तु यत् प्रभुप्रियाय भवति तादृशं पैशुन्यं मा कुरु। तदा करणेन वयमेव सङ्कटे पताम। एतस्य उदाहरणं सूर्याचन्द्रमसौ। तौ अमृतास्वादनवेलायां गुप्तेनोपविशन्तं राक्षसमभिज्ञाय सर्वान् सूचितवन्तौ। तस्य परिणामोधुनापि राहोः वशे तौ पतेताम्।
व्याकरणांशः – क्लेशदम् – क्लेशं ददातीति क्लेशदः – उपपदसमासः
प्रभुप्रियम् – प्रभोः प्रियम् – षष्ठीतत्पुरुषसमासः
चन्द्रार्कौ – चन्द्रश्च असौ अर्कश्च – चन्द्रार्कौ – द्वन्द्वसमासः
भक्षणीयतां गतौ -> कालिदासस्य ‘उपहास्यतां गमिष्यामि’ स्मरामश्चेत् स्ववगमः प्रयोगोयम्।
अमू ग्रहौ वीक्ष्य तयोः आचारं निशम्य पद्यनीतिमवगत्य यावच्छक्यं सर्वे सज्जनायन्ताम्।शुभं भूयात्।


Leave a comment