Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

रामसीताप्रेम! – A glimpse into Rama and Sita’s affection

श्रीराममन्दिरप्रतिष्ठापनोत्सवमाधारीकृत्याद्यापि श्रीरामविषय एवापि च हनुमन्नाटकादेव लेखः विलिख्यते। अस्मिन् लेखे रामसीतयोर् मध्ये विद्यमानप्रेम्नः विषये कविना किं व्यलेखीति सिंहावलोकनम्। दिव्यदम्पत्योः प्रेम चेन्मद्धृद्धारिवषय एव।

रामसीतयोर्‌ मध्ये प्रेम भूयिष्ठमासीदिति रामायणपद्यानि वीक्ष्य वेदितुमीश्महे। अद्य हनुमता विरचितं हनुमन्नाटकमिति ग्रन्थे विद्यमानं सुन्दरं पद्यं किञ्चिदवलोकयाम यत्र रामसीतयोः परस्परं प्रेम सुन्दरं प्रतिपादितम्। पद्यमिदं भवभूतेः प्रसिद्धं “रात्रिरेव व्यरंसीत्” स्मारयति। भवतु नाम।

कपोले जानक्याः करिकलभदन्तद्युतिमुषि
स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम्।
मुहुः पश्यन् शृण्वन् रजनिचरसेनाकलकलं
जटाजूटग्रन्थिं द्रढयति रघुणां परिवृढः॥

अन्वयः – जानक्याः करिकलभदन्तद्युतिमुषि कपोले वक्त्रकमलं गण्डोड्डमरपुलकं स्मरस्मेरं मुहुः पश्यन् रजनिचरसेनाकलकलं शृण्वन् रघूणां परिवृढो जटाजूटग्रन्थिं द्रढयति।

अर्थः – जानक्याः कपोलो गजस्य अर्भकस्य दन्तस्य द्युतिरिव शोभते। तस्याः वक्त्रं कमलमिव फुल्लितम्‌। तद्वक्त्रं कामेन स्मितमस्ति चापि पुलकितमस्ति। तादृशं वक्त्रकमलं पश्यन् राक्षसानां सेनायाः रवं शृण्वन् रघूणां वरः तस्य जटां दृढीकरोति। जटां द्रढयितुं दर्पणः आवश्यकः। सीतायाः कपोलः दर्पणवद् बाभ्राज्यते यस्माद् रामस्सीताकपोले लक्षितप्रतिबिम्बो बभूव। अत्र तात्पर्यं यद्यपि सीता काननवासिनी तथापि अनया सभर्तृकया सन्तोषेणाजीवि। अस्मात् सुष्ठु ज्ञायते यद् रावणापहरणप्रसङगपर्यन्तं रामसीताजीवनं सुखमयमिति। अयं श्लोकप्रसङ्गः खरदूषणादिनां राक्षसानां हननात् पूर्वमित्यूहे।पद्यमिदमपि च तत्र विद्यमानं शृङ्गाररसं मह्यं बहु रोचते।

English Translation – In the heart of the forest, Rama gazed upon Sita’s luminous cheeks, which shone like the ivory tusks of youthful elephants. Her face, akin to a blooming lotus, was adorned with a tender smile of love. Amidst this serene moment, Rama, the scion of Raghu, listened intently to the distant tumult of demons. With a contemplative gesture, he firmly knotted his hair, using the glowing reflection in Sita’s cheeks as a mirror!

इदं पठित्वा सर्वेषां मुखानि मन्दस्मितेन भूषितानि स्युरिति नास्ति कोपि सन्देशः।

श्रीरामजयमित्युक्त्वा समाप्यते। शुभं भूयात्।


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading