द्रमिडप्रदेशे बाल्यकाले हास्यरूपेण प्रश्नोयं पृच्छ्यते – काकः ‘क…क…’ इति रौतीति काकस्य नाम काक उत काक इति नाम्ना ‘क…क…’ इति रवीति? अमुना प्रश्नेन द्रमिडवाण्यां जिह्वास्खलनं भवेद् यद् बालानां हास्यजनकम्। भवतु नाम। किमर्थमस्य विषये प्रतिपादनमिति चिन्तितवति गते मासे किञ्चित् पद्यं मद्दृष्टिगोचरे पतितम्। पद्यरचयिता नीलकण्ठदीक्षितः इति जालपुटे वीक्षितं परन्तु तस्य सत्यताविषये न जाने। परं पद्यं तु हृद्यमपि च चक्रवर्तिकुमारस्य ससीतस्य रामचन्द्रस्य श्लोक इति कारणेनात्र प्रस्तूयते। अयोध्यायां राममन्दिरप्रतिष्ठापनमभूद्वैभवेनातो रामस्य विषये भवत्वत्रापीति धिया लेखोयमचायि।
सीतेव राम इव क्षमया दययाभुवन इह का? क: ? |
इत्यात्मघोषवचसा तज्जातीयानां तथैव संज्ञाऽऽसीत्॥ (नीलकण्ठदीक्षितः प्रायः)
पदच्छेदः/अन्वयः – सीता इव रामः इव क्षमया दयया भुवने इह का कः। इति आत्मघोषवचसा तत् जातीयानां तथा एव संज्ञा आसीत्।
अन्वयार्थः – अस्मिन् विश्वे सीता इव कापि अपि च रामः इव कोपि वर्तते किं यस्य गुणेषु क्षमादयादयः वर्तन्ते इति पृच्छन् ध्वाङ्क्षः का? क? इति रौति यस्मादस्य पक्षिविषयनाम ‘काकः’ इत्यभूदिति कविरत्रोत्प्रेक्षते।
प्रसङ्गमज्ञात्वा पद्यमिदं नीरसं भवेत्। काकासुरवृत्तान्तमेव कविनात्र प्रतिपाद्यते। काकासुरः सीतां पीडयामास। तज्ज्ञात्वा रामेण ब्रह्मास्त्रं प्रयुक्तं यस्माद् विमोक्तुमनाः काकः पुनः सीतायाः पादे प्रण्यपतत्। अनन्तरं सीतायाः क्षमया दयया च रामोपि काकासुरस्य प्राणान् ररक्ष। धन्यः काकस्तदा इदृग् गुणो’न्येषु वर्तते किमिति पृच्छन् डयते।
अत्र कवेः कल्पना श्लाघ्या। पद्यमिदं निशाम्य मनो मे मोदते। वयं सर्वे सर्वदा ससीतरामनामजपं करवामहै। जय जय ससीतराम! महाधीरधौरेयाय नमोनमः। रक्षेतां रामलक्ष्मणौ।
शुभं भूयात्।


Leave a comment