इयं कथा मयोपन्यासे श्रुता। अस्याः कथायास्सत्यताविषये न जाने परं सुष्ठु नीतिर् बोधयतीति निशामयाम।
वैशम्पायनो महाभारतकथां जनमेजयाय वक्तुमैच्छत् परं जनमेजयस्तामश्रोतुकामः। वैशम्पायने “एकं सर्गं श्रुणु” इति उक्तवति जनमेजयस्तदपि नाङ्गीचकार। वैशम्पायने एकश्श्लोकच्छ्रूयतामित्युदितवति जनमजय ऊरीचकार सोपप्लवम्। तदा कथञ्चिज्जनमेजयस्यासक्तिराकर्षणीयेति चिन्तयन्निमं श्लोकमुवाच।
“द्वाविमौ पुरुषौ मूर्खौ दुर्योधनदशाननौ | गोग्रहम् वनभङ्गम् च दृष्ट्वा युद्धं पुनः पुनः ||“
अन्वयः – इमौ द्वौ पुरषौ दुर्योधनदशाननौ मूर्खौ। गोग्रहं वनभङ्गं च दृष्ट्वा युद्धं पुनः पुनः।
अस्मिन् वाक्ये क्रियापदमेव नास्ति। पद्यं त्वसम्पूर्णम्। कथञ्चिज्जनमेजयस्य ध्यानमस्यां पतत्विति धिया वैशम्पायेनैवं व्यरचि। इदं निशम्य जनमेजय आकृष्टः। सोग्रे वेदितुमैच्छत्। वैशम्पायनो यदैच्छत् तदभून्ननु। तदनन्तरं सम्पूर्णं भारतमश्रावि जनमेजयाय।
श्लोकस्य तात्पर्यम् – रावणश्च दुर्योधनश्च मूर्खौ। यतोह्येकाकिना रामेण चतुष्सहस्रं राक्षसान् जघानेति ज्ञात्वापि रावणेन रामप्रिया सीतापहृता युद्धं कृतं च। नन्वयं परममूर्खः? एवमेव गोग्रहसमय एकाकिनार्जुनेन धार्तराष्ट्रास्तत्पक्षीयास्सैनिकाश्च पराजितास्तथापि पाण्डवैस्सह दुर्योधनो युद्धमकार्षीत्। द्विषदां पराक्रमं ज्ञात्वा कदाचिन्मैत्रीभाव आचरणीयोन्यथा हानिर्भवेदिति नीतिः।
Know your adversaries’ strengths, and based on that, decide whether to confront them or collaborate with them. This strategy paves the way to success.Duryodhana and Ravana were two misguided souls who, despite being fully aware of their enemies’ formidable prowess, chose to battle against them and ultimately lost their lives
कथायास्तात्पर्यम् – कस्यचिद् ध्यानं वाचाक्रष्टुमीश्यते। अतोस्माज्ज्ञायते यद्वाक्चातुर्यमत्यावश्यकं यस्माद्विश्वमपि जेतुमीश्मह इत्युक्त्वा लिखोयं समाप्यते।
I’m too lazy to provide a full English translation today, so let this serve as an incentive to learn Sanskrit and enjoy the article.:)
शुभं भूयात्।


Leave a comment