(Note that there is no translation for this post as it deals with the advanced writing format of Sanskrit. Therefore, learn Sanskrit :))
पुनः अस्मिन् सप्ताहे ग्रन्थलिपेः लेखः। पूर्वस्मिन् लेखे स्वराः कथं लिख्यन्ते इति वीक्षितम्। Link to that – https://arabhatee.com/2024/03/01/%e0%a4%97%e0%a5%8d%e0%a4%b0%e0%a4%a8%e0%a5%8d%e0%a4%a5%e0%a4%b2%e0%a4%bf%e0%a4%aa%e0%a4%bf%e0%a4%83-%e0%a4%b8%e0%a5%8d%e0%a4%b5%e0%a4%b0%e0%a4%be%e0%a4%83/
साम्प्रति व्यञ्जनं वीक्षामहे। अत्र द्रमिडाक्षराण्यपि लिखितानि परन्तु द्रमिडे महाप्राणः इति नास्ति अतः सङ्ख्या योज्यते यद् वाचकानुच्चारणविषये बोधयति।
व्यञ्जनानि:
क ख ग घ ङ । ———-> 𑌕 𑌖 𑌗 𑌘 𑌙 । (द्रमिडे – > க க² க³ க⁴ ங)
च छ ज झ ञ।———–> 𑌚 𑌛 𑌜 𑌝 𑌞 । (द्रमिडे – > ச ச² ஜ ஜ² ஞ)
त थ द ध न ।———–> 𑌤 𑌥 𑌦 𑌧 𑌨 । (द्रमिडे – > த த² த³ த⁴ ந)
ट ठ ड ढ ण ।———–> 𑌟 𑌠 𑌡 𑌢 𑌣 । (द्रमिडे – > ட ட² ட³ ட⁴ ண)
प फ ब भ म।———–> 𑌪 𑌫 𑌬 𑌭 𑌮 । (द्रमिडे – > ப ப² ப³ ப⁴ ம)
य र ल व ।———–> 𑌯 𑌰 𑌲 𑌵 । (द्रमिडे – > ய ர ல வ)
स श ष ह ।———–> 𑌸 𑌶 𑌷 𑌹 । (द्रमिडे – > ஸ ஶ ஷ ஹ)
अधुना गुणिताक्षरं जानीमहे चेत् पदं ज्ञातुं शक्नुमः। केवलं ककारं स्वीकृत्य गुणिताक्षराणि पश्येम।
देवनागरी -> क का कि की कु कू कृ कॄ कॢ के कै को कौ कं कः
द्रमिडम् -> க கா கி கீ கு கூ க்ருʼ க்ரூʼ க்லுʼ கே கை கோ கௌ கம்ʼ க꞉
ग्रन्थः -> 𑌕 𑌕𑌾 𑌕𑌿 𑌕𑍀 𑌕𑍁 𑌕𑍂 𑌕𑍃 𑌕𑍄 𑌕𑍢 𑌕𑍇 𑌕𑍈 𑌕𑍋 𑌕𑍗 𑌕𑌂 𑌕𑌃
साम्प्रतं सरलानि पदानि वीक्ष्यावगन्तुं प्रयतामहे।
रामः -> 𑌰𑌾𑌮𑌃 । -> (द्रमिडे ராம꞉ )
सीता -> 𑌸𑍀𑌤𑌾 । -> (द्रमिडे ஸீதா)
भरतः -> 𑌭𑌰𑌤𑌃 । ->(द्रमिडे ப⁴ரத꞉) सामान्यतया பரதன் इत्येव द्रमिडभाषयोल्लिख्यते।
तुलसी -> 𑌤𑍁𑌲𑌸𑍀 । -> (द्रमिडे துலஸீ)
पश्यात्र ग्रन्थद्रमिडलिप्योः साम्यं वर्तते। अनेन ग्रन्थः सुलभः इति मा चिन्त्यताम्। अधुना द्रमिडलिप्यामपि मम क्लेशः जातः परन्तु अभ्यासेन सर्वं साधयितुं शक्नुमः। सम्युक्ताक्षराणां कथा तु भिन्ना यदग्रे पश्येम। प्रायश’’ग्रिमे लेखे इतोपि पदानि वीक्ष्य कृताभ्यासाः भवेम। शुभं भूयात्।


Leave a comment