Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

Happy Nrsimha Jayanthi!

(English Translation below)

अद्य नृसिंहजयन्तीमहोत्सवः। लक्ष्मीनृसिंहो मालोल इति प्रसिद्धः। श्री-अहोबिलमठस्य प्रधानमूर्तिरपि च मम इष्टदेवता। ईदृशीं पृष्टभूमिकां दत्त्वा साम्प्रतं लेखः प्रारभ्यते। अनेकैराचार्यैः रचिता मालोलश्लोका अनेकाः परमद्य उद्भटसागरेण विरचितं (वा न जाने) किञ्चित् पद्यमवलोकयामो यन्मह्यं रोचते।

चक्र! ब्रूहि विभो, गदे! जय हरे, कम्बो! समाज्ञापय,

भो भो नन्दक! जीव, पन्नगरिपो! किं नाथ, भिन्नो मया ।

को? दैत्यः, कतमो? हिरण्यकशिपुः, सत्यं भवद्भ्यः शपे!

केनास्त्रेण? नखैरिति प्रवदतो विष्णोर्मुखं पातु वः ॥

अत्र भगवतो नृसिंहस्य च तस्यायुधानां मध्ये सम्भाषणम्। नृसिंह आयुधैर् विहाय स्वीयैर्नखैः हिरण्यकशिपुं जहार। पश्चात् एकैकमायुधमाहूय ब्रूत इदम्।

नृसिंहः(नृ) – (हे) चक्र!

चक्रम् – ब्रूहि विभो

नृ – (हे) गदे!

गदा – जय हरे

नृ – (हे) कम्बो

कम्बुः – समाज्ञापाय

नृ – भो भो नन्दक!

नन्दकः – जीव

नृ – (हे) पन्नगरिपो

पन्नगरिपुः – किं नाथ

नृ – भिन्नः मया

आयुधानि – कः?

नृ – दैत्यः

आयुधानि – कतमः?

नृ – हिरण्यकशिपुः

आयुधानि – (विस्मयेन पश्यन्ति किमपि अनुक्त्वा)

नृ – सत्यं भवद्भ्यः शपे

आयिधानि – केन अस्त्रेण?

नृ – नखैः

इति प्रवदतः विष्णोः मुखं पातु वः।

नन्वयं पद्यं हृद्यम्। कवेः कल्पनात्र श्लाघनीया।

केचिदाचार्याः आचक्षते यत् नृसिंहः क्षणमात्रमिहासीदतस्स जनान् बोधयितुं नाशकदतो तेनैव रामावतारः कृत इत्यत एव “भद्रः” इति नाम उभयोः वर्तते। इतोपि वैशिष्ट्यमेकं वर्तते। यत्र नृसिंहालयः तत्र हनुमानपि भवेत्। अतः नृसिंहः = रामः इत्युक्त्वा लेखोयं समाप्यते।

सर्वेभ्यो श्रीनृसिंहजयन्ती शुभाशयाः।

English Translation – This narrative imagines a dialogue between Lord Nrsimha and his arsenal. Despite the legend that Lord Nrsimha vanquished Hiranyakashipu solely with his nails, omitting the use of any weapons, the poet conjures an evocative scene where the Lord addresses each of his armaments—Chakra, Mace, Conch, Sword, Garuda. Declaring, “I have killed him,” his arsenal responds with a puzzled, “Who?” To which he answers, “The Demon.” “Which one?” they further inquire. “Hiranyakashipu,” he clarifies. A hush falls over the weapons upon this revelation. To assure their silence, the Lord asserts, “I swear I am telling you all the truth.” “By what?” the weapons probe. “With my nails,” replies the Lord. May that Lord’s face, which thus spoke to his weapons, shelter us all.

The ingenuity of the poet deserves admiration for crafting such a sublime verse. A joyous Nrsimha Jayanthi to those celebrating. May we forever bask in his divine safeguard.


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading