अद्य पुनराचार्याणां भाषणं श्रोतुमगमम्। भगवद्गीतायाः कर्मयोगे प्रोत्साहनकराणि वचांसीति विषयमाधारीकृत्यासीद्भाषणम्। परं तत्र मध्ये मध्ये गभीरविषयप्रतिपादनार्थं भगवत्पादानां प्रश्नोत्तररत्नमालिकातः कानिचन पद्यानि उदाहृतानि यान्यत्र निर्दिश्यन्ते।
सामान्यजनानां व्यावहारिकजीवने मनसि प्रश्ना अनेक उत्पद्यन्ते। तेषामुत्तरमाचार्येण सुष्ठु नीतिबोधके’स्मिन् ग्रन्थे प्रतिपादितम्।
किं शोच्यं ? कार्पण्यं सति विभवे किं प्रशस्तम्? औदार्यम्।
कः पूज्यो विद्वद्भिः? स्वभावतः सर्वदा विनीतो यः।।
अर्थस्तु स्ववगमः। कार्पण्यमिति यद्यपि कृपणस्य भावो’त्र दीनावस्था प्रोक्ता यतोहि गीतायां “कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्म्मसंमूढचेताः” इति विद्यते। अत्रान्तरात्मा भगवानित्यज्ञात्वा यो याति तस्यावस्था कृपणतार्थात् कार्पण्यम्।
What is pitiable? Imbecility.
What is praiseworthy when you are rich? Benevolence.
What is worshipful in the learned? Humility by nature.
कुत्रानृते’प्यपापं? यच्चोक्तं धर्मरक्षार्थम्।
को धर्मो’भिमतो? यः शिष्टानां निजकुलीनानाम्।।
When is lying not considered a sin? When spoken to protect Dharma.
What is Dharma? That which is upheld by the honorable.
प्रश्नोत्तररत्नमालिका अध्येतव्येति निर्णीतम्। इतोपि अधीत्य लिख्यते। शुभरात्रिः।

Leave a comment