Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

मान्यस्थानम्

कदाचित् पद्यमेकं श्रुतमेवम् –

वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम्।।

पश्चाज्ज्ञातं यन्मनुस्मृतितः उद्धृतमिति। आदारास्पदं किमिति विव्रियते’त्र यत्र परिपाट्यनुसरणीया। प्रथमं तु वित्तमित्युक्ते धनम्, द्वितीयं बन्धुः, तृतीयं तु वयः (ज्येष्ठत्वं सूच्यते’त्र), चतुर्थं तु कर्म, पञ्चमं तु विद्या। उत्तरं गरीयः इति चतुर्थे पादे दत्तमित्युक्ते कासुचित् सभासु विद्यावान् , धनवान्, बन्धुश्च च वर्तन्ते चेत् तेषु विद्यावान् कनिष्ठश्चेदपि विद्यावतः सम्मानः एव प्रथमः कार्यः इति। अमुष्माज्ज्ञायते यद् विद्यायाः महत्त्वं कियद् वर्तते पूर्वजानामस्माकमिति।

अद्यत्वे वित्तस्यैव प्राधान्यं लोके वर्तते। प्रायशः सर्वे प्रथमद्वितीयपादे वीक्ष्य वित्तस्यैव प्राधान्यमिति मन्येरन्। भवतु नाम, अद्य किमपि चिन्त्यः विषयः लेखनीयः इति निर्णीतमतः पद्यमिदम्। शुभं भूयात्।

Translation for those unfamiliar with the language: Wealth, relations, age, occupation, and education are the five pillars of respect. Among these, the latter always takes precedence over the former. This means that if a young but well-learned individual is in a group with someone who is wealthy or related by blood, the learned individual should be honored first due to the high regard placed on knowledge and education. This hierarchy underscores the profound importance our elders placed on learning and wisdom.


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading