Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

साहित्यमुख्यता।

कञ्चिदुपन्यासः श्रुतः यत्र वक्त्रा काव्यस्य विषये प्रतिपादितम्। तत्र मया श्रुतानि वाक्यानि कानिचनात्र प्रस्तूयते –

अपारे काव्यसंसारे कविरेक: प्रजापतिः।
यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥

काव्यजगदिति स्वीकुर्मश्चेत् तत्र स्रष्टा ननु कविः। तस्मै यद् रोचते काव्यजगति तत् योजयति। तस्य चिन्तनं वा लेखनं वा कुत्सितं भवति चेत् तत् कुकाव्यं भवति। सोपि लोकाप्रियो भवति। अस्मिन् श्लोके रूपकं तु सुष्ठु प्रतिपादितं परं नायं विस्मयकरो विषयो यतोहि पुराणश्लोको ननु।

काव्यं किमर्थमिति प्रश्ने सति सर्वे साहित्यच्छात्राणां स्मृतिपथे स्यादयं मम्मटाचार्यविरचितश्लोकः –

काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये। सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे।

अर्थात् काव्यं तु कीर्त्यायै, धनसम्पादनाय, व्यवहारज्ञानाय, मङ्गलाय, आनन्दाय, प्रियायाः सद्वचनमिव हिताय इति।

काचित् प्रसिद्धा लोकोक्ति वर्तते – प्रयोजनमनुदिश्य मन्दोऽपि प्रवर्तते। यदि कस्मिंश्चिदपि कार्ये लाभो न वर्तते तत् कार्यं मन्दोपि न कुर्यादिति अर्थः। काव्यस्य प्रयोजनं किमिति पूर्वतनपद्येन अज्ञायि।

ततः शास्त्रज्ञानां साहित्यज्ञानां भेदो’पि च तयोर् मध्ये रचनाशैली कियती भिन्ना स्यादिति प्रतिपादयितुमिदमुच्यते।

शरत्काले द्रुमाणां गतिः केति सर्वे जानीयुः। तादृशानां पर्णविहीनवृक्षाणां पुरतः कञ्चित् न्यायशास्त्रज्ञं स्थापयित्वा “वर्णनं कुरु” इत्युक्ते सति तस्योत्तरं स्यात् – शुष्को वृक्षः तष्ठति अग्रे। पश्चात् कञ्चिदधीतसाहत्यकविमाहूय अप्राक्षीत्। कवेरुत्तरमासीत् – नीरसतरुरिह विलसति पुरतः।

साम्प्रतं द्वयोरपि उत्तरं पश्य – ननु शास्त्रज्ञस्यपेक्षया कवेः वाक्ये सौन्दर्यं वर्तते’त एव संस्कृतक्षेत्रे साहित्ये तावती मुख्यता। साहित्यमधीमहे चेन्नो व्यवहारिकवचांस्यपि पद्यायते। :)

एतेन लेखोयं समाप्यते। शुभं भूयात्।


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading