Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

गीताश्लोकविमर्शः (Reflections on Gita Verses)

गीतातः श्लोकोवलोकितः तथा मनसि काचिच्चिन्तनोत्पन्ना यात्रोल्लिख्यते। दीर्घं न लिखेयं यतोहि जाने सर्वेषां नास्ति तितिक्षा।

प्रथमाध्याये दुर्योधनस्य वचांस्याधारीकृत्योच्यते-

पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम्।

व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता।। १॰२

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।। १॰९

पद्ये इमे पठित्वा दुर्योधनस्य मनसि विजयप्राप्त्यर्थं कियती भयशङ्का’सीदिति ज्ञायते। व्याख्याने दृष्टं यद् धैर्यभ्रंशहेतुः सुष्ठु दृश्यत इति। तत्र  स्वस्य पक्षे पितामहो महावीरो भीष्मो यद्यपि वर्तते यद्यपि स्वपक्षे एकादश-अक्षौहिणी-युक्त-सेना’सीत् तथापि पाण्डवानां सप्त-अक्षौहिणी-सेनां विक्ष्याबिभेत्। स्वयं द्रोणाचार्य आत्मनः पक्षे वर्तते चेदपि द्रोणाचार्यशिष्यं धृष्टद्युम्नं धीमन्तं मत्वा तमश्लाघत। दुर्योधनो युद्ध-प्रारम्भादेव वैरिणं महान्तममन्यतेति ममाभात्।

द्वितीये पद्ये भीष्मेण रक्षितं स्वस्य बलम् अपर्याप्तमित्यवोचत्। अपर्याप्तमित्यत्रासमर्थतां प्रतिपादयति। भीष्मः, द्रोणः, अश्वत्थामा, कर्णः इत्यादयः महावीराः सन्ति चेदपि भीमेन रक्षितं पाण्डवपक्षमेव युद्धं जेतुं समर्थः इति तस्य प्रतिभाति।  इतोपि कस्मिंश्चित् श्लोके त्यक्तजीविताः इति वर्णिताः यत्रापि जिगीषवः इति पदं युक्तं स्यात्। अत्र भीमस्य स्थाने धृष्टद्युम्नस्य नामोचितं स्यात् परन्तु भीमेनैव प्रतिज्ञा कृता यद् धार्तराष्ट्रान् सर्वान् हन्मीत्यतः तस्य नामोल्लेखनम्।भीष्मस्य का प्रतिज्ञा? अर्जुनं विहाय कानपि पाण्डवान् न हन्मीति। ननु दुर्योधनस्य शङ्का युक्ता? तथापि धृतिस्सर्वदावश्यकी।

कार्यं यत्किमपि भवतु परन्तु नः मनसि पराजयस्य वा अशक्तताचिन्तना वा वर्तते चेज्जयो न शक्यस्तत्र। मनो दृढं सधैर्यं वर्तते चेत् कठिनकार्यमपि साधयितुं शक्नुमः इत्युक्त्वा लेखोयं समाप्यते।

I recently found myself revisiting the first chapter of the Gita after exploring all other options. The verses in this chapter subtly convey the themes of negativity and manifestation. Duryodhana, despite having great warriors on his side, felt inadequate against the Pandavas. Most of the verses are filled with praises for the enemy, adorned with grand adjectives, while his own warriors receive no such accolades. Even with Dronacharya on his side, Duryodhana praises Drona’s pupil, who is the commander-in-chief of the opposing army. This negativity was his downfall; he manifested his own defeat. So, folks, always maintain a positive mindset and think the best for the best to happen.


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading