पूर्वस्मिन् लेखे वज्रविषये व्यलेखि। अस्मिन् लेखे मौक्तिकविषये यतोहि तद्विषये अपाठि। मौक्तिकं मम तावत् प्रियं नास्ति तथाप्यस्य विषये पठितमिति लिख्यते’न्यथा विस्मर्यते। उत्कृष्टमणिषु मौक्तिकं प्रथमं स्थानमावहति। यथा केषाञ्चनोचितवस्तूनां जन्मस्थानमनुचितं तथेव मौक्तिकस्यापि। उदाहरणार्थम् -पद्मस्य जन्म पङ्के, पाटलस्य जन्मस्थाने कण्टकं न तत् परं भगवतः कृष्णस्य जन्मस्थानं कारागृहमेवेमेव मौक्तिकस्यापि शुक्त्याम्। नवरत्नेषु वज्रस्यानन्तरं मौक्तिस्य द्वितीयस्थानम्। एतस्य अधिदेवता चन्द्रः। स्वातिनक्षत्रे चन्द्रकिरणेन उद्भवति मौक्तिकम्। मुक्ता इत्यपि तस्य नाम। जन्ममात्रे मात्रा त्यक्तमिति मुक्तानामा। गजस्य मदजले’पि मुक्ता उद्भवतीति काव्येषु दृश्यते। प्रायशः सः कविसमयः स्यात्।
श्रीरामपट्टाभिषेकसमये इन्द्रेण रामाय मुक्ताहारं प्रदत्तं यद् रामेण सीतायै सीतया हनुमते प्रदत्तमतः मुक्तायाः परामत्मजीवात्माचार्यसम्बन्धो वर्तते। उषसि मुक्तायाः पूजा यशसे इति उच्यते। पुरा द्रमिडप्रदेशे पाण्ड्यदेशे ताम्रपर्णीनदितटे मुक्ता अनेकाः बभूवुरिति सङ्गकालद्रमिडे निर्दिष्टम्। मुक्तायाः धरणेन आपन्नसत्त्वा भवेत् स्त्रियः इति अगस्तयस्मृतिषूल्लिखितम्।
Previously, I wrote about diamonds. Today, I stumbled upon an old article on pearls. While pearls aren’t my favorite, I learned something new and wanted to document it. Like the lotus that blooms from the mire or roses with their thorns, pearls too have an interesting origin—they are born from shells. Among the nine gems, pearls follow diamonds and are governed by the Moon. It is said that when the moon’s rays fall on a Oyster shell during the Swati nakshatra, a pearl is born. The oyster, however, perishes, giving the pearl its Sanskrit name “Mukta,” meaning “liberated.” Interestingly, ancient literature also mentions pearls forming in the temple waters of rutty elephants, though this might just be poetic imagination.
Incidentally, the Tamraparni River was once rich in pearls, as documented in Sangam literature. There were many other fascinating details, but I focused on what intrigued me most. Of course, I left a few lines untranslated :)

Leave a comment