अद्यावधि द्वितीयाध्याय एवास्मीति सखेदं लोख्यते यतोहि समयो न प्राप्यतेऽध्ययनाय। कार्यालयकार्यमधिकमस्ति। अपि च कार्यालयो गम्य इति स्थितिः। इतःपरं विकल्पोनास्तीति मन्ये। भवतु नाम। किञ्चित् पद्यं वीक्षितं यद् हृत्स्पर्शि आसीत्। अर्जुनः किंकर्तव्यतामूढस्सन् भगवन्तं कृष्णं पृच्छति एवम् – अहं किमपि न जानामि। किमूचितंकिमु अनुचितमिति अजानन्मन्मनस्सम्भ्रान्तः। त्वमेव मम मार्गदर्शकः, त्वं परतत्त्वमिति वेद्मि। त्वया किमुच्यते तद्विना पृच्छां क्रियते मया। मां तव शिष्यः इति सञ्जानाहि। तवोपदेशमनुसर्तुं सिद्धोहमिति।
श्लोकः- कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥२॰७॥
कार्पण्यदोषो मयि विद्यते इति अर्जुनवाक्। कार्पण्यमिति कृपणस्य भावः परमत्र अनन्यगतिकत्वं निरूपितम्।एतेन विचारशक्तिः नष्टा जातेति तात्पर्यम्।
मदवस्थापि पार्थवदेव। प्रायः नः सर्वेषां स्थितिरियं स्यात्। एतन्मद्वच इत्यपि भावयितुं शक्यते। अहमपि प्रपन्नापि च परमात्मनि मन्महाविश्वासो वर्तत एव। परमीदृक् साक्षात् प्रत्यक्षे भगवतः पादौ निपत्य एवं वक्तुं प्राप्यते किमवसरः? कियान् भाग्यवान् ननु पार्थः। तत्रैव तस्मिन् मम ईर्ष्या वर्तते। भवतु साम्प्रतं सः परमात्मा दृगगोचरे मत्पार्श्वे वर्तते इति निश्चप्रचमुक्त्वा लेखोयं समाप्यते।
This Gita verse, where Arjuna falls at Krishna’s feet and requests guidance on the right path, resonates deeply with me. In fact, I believe it resonates with all of us. At some point, we all find ourselves, like Arjuna, confused about what is right and wrong. In this moment, Arjuna completely surrenders to ParamAtma, asking Him to take him as a student and advise him on what is best. He acknowledges having nowhere else to turn, imploring the Lord to guide him.
What makes me envious is that Arjuna had the opportunity to receive ParamAtma’s direct guidance. How I wish I could have that too! Nevertheless, I trust that he is guiding me on the right path, always by my side in His invisible form.


Leave a comment