अद्य किञ्चित् पद्यमालोकितम् –
ज्योतिषं व्यवहारं च प्रायश्चित्तं चिकितसकम्।विना शास्त्रेण यो ब्रूयात् तमाहुर्ब्रह्मघातकम्।।
ज्योतिषं वा चिकित्सां वा प्रायश्चित्तं वा कोपि अशास्त्रज्ञः भणति चेत् सः ब्रह्महन्ता इति उच्यते। इदं वीक्ष्य शास्त्रस्य कोर्थः इति जिज्ञासा उत्पन्ना मे मनसि। आचार्यात् यो ज्योतिषतन्त्रं नाधीते सोथवा वेदाङ्गज्योतिषं भाषा-अज्ञानः यो’धीते स वेति मे कुतुहलं परमुत्तरं न जाने। एवमेव चिकित्सार्वाचीनकाले पदवीं प्राप्य क्रियते परन्त्विदमायुवेदविषये वा न जाने। दैवान्नाहं मौहूर्तिकी न वा भिषगतः प्रश्नोयं न मां भृशं बाधते किन्तु अवसरे प्राप्ते’स्य तात्पर्यं किमिति ज्ञातुं प्रयते। परमिदं तु स्पष्टं जाने – सर्वदा नः मुखात् भद्राणि वचांसि एव निस्सरणीयानीति उक्त्वा समाप्यते।


Leave a comment