अद्य श्रीकृष्णजन्माष्टमी। सर्वेषां प्रायः हृद्योत्सवः। आस्माकीनानां भगवज्जन्माश्रित्य विविधानि भक्षणानि सेव्यन्ते। कथञ्चिदस्मिन् वर्षे’पि भक्षणानि कृतानि यतोहि कानिचन दुष्कृतान्येव मुख्यतया “पोरिवलंगा” इतीष्टकावद् भक्ष्यं मया न प्रयतितमपि विधातुम्। परं नायं लेखः भक्षणविषये। तत्तु सदा भवत्येव। अत्र नूतनश्लोकः भागवततो वीक्ष्यते यन्मया पुरातनपुस्तके’दर्शि।
गृहं श्मशानं तव बिम्बवर्जितं कथाविहीनाश्च गिरः शिवारुतम्।
श्वसन् शवो दास्यविनाकृतं वपुर् वदन्ति हि त्वय्यनिवेदितं विषम्॥
यस्मिन् गेहे त्वद्बिम्बो नास्ति नादो गृहमित्युच्यते’दस्तु श्मशानमेव। त्वदसम्बन्धीनि वचांसि वृकरवः एव। त्वत्कैङ्कर्यमकुर्वन्तः जनाः जीवन्नपि मृतप्रायाः। तुभ्यमसमर्प्य खादन्तः ये ते विषमेवादन्तीति तात्पर्यः।
अयं तु गभीरो विषयः। कियत् स्यात् कृष्णप्रेमात्र। न केवलमन्धभक्तिरत्रोक्ता परं कृष्णं विना जगदिदं न सिद्धयतीति।तादृशे कृष्णे शरणं यामः भक्त्येत्युक्त्वा श्रीजयन्तीशुभाशयान् व्याहृत्य लेखोयं समाप्यते।


Leave a comment