परेद्युः मया पद्यमिदमदर्शि तदात्र उल्लिखेयमिति धीः किन्तु पद्ये नूतनविषयः कोपि नास्ति तथापि किमर्थं पुनरुल्लेखनं चेत् कदाचिज्ज्ञातसर्वविषयाः चेदपि न वयं तद्विषयानुसारिणो’तः पुनर्मुद्रणम्।
अभ्रच्छाया खलप्रीतिः सिद्धमन्नं च योषितः। किञ्चित्कालोपभोग्यानि यौवनानि धनानि च।।
मेघस्य च्छाया, दुर्जनानां प्रीतिः, पक्वम् अन्नम्, स्त्रियः, यौवनम्, धनम् – एतानि सर्वाणि किञ्चित्कालमेव सुखं ददातीति पद्यार्थः। अमुष्मिन् किं नूतनमिति पृच्छा भवेत् परं एतानि ज्ञात्वापि कदाचिद् धनसम्पादने मग्नाः वान्यवषयार्थिनो वा भवेम। मुख्यतया खादनविषये मया वाच्यमेव यतोहि यत्र कुत्रापि यत्किमपि खादनमिति खेदायैव।कः खलः इति निर्णये एव स्खलनं केषाञ्चन तर्हि अग्रे वदनेन किम्? यौवने अहङ्कारेण पीडिताः वयमकार्यमपि कुर्महे। प्रायः मोहमुद्गरतः पद्यं सदा वाच्यमिति मन्ये। भवतु नाम अस्मिन् समये केवलं सुदर्शनसूरेः ननु दैवयोगः दुर्जयः इति वचो वक्तुं शक्नोमि।
These are the fleeting things in this world: a cloud’s shadow, friendship with the wrong crowd, a meal just served, the vigor of youth, and the lure of money. They offer only momentary pleasure. There’s nothing new in this ancient wisdom, yet people still chase after these elusive desires. After all, who can defy fate? As Sudharshana Suri wisely said…


Leave a comment