नमांसि! पुनर्मम लेखने जातमवसानम् :( न जाने कस्य दृष्टिर्मल्लेखने पतिता (आं जाने, सर्वदा अन्येषामेव दोषः)। लेखनजातावसानाहं कारणानि शतं वक्तुं शक्नोमि – प्रयाणम्, नवरात्रम्, कोलाहलम् इत्यादीनि तथापि प्रारम्भमुत्तमजना न परित्यजन्तीति वचनं मनसि स्मृत्वा लेखोयं लिख्यते।
ह्यः आरभ्य युवकान् पाठयामि। मह्यं बहु रोचते यतोहि तेषां चिन्तनं भिन्नं भवति। पाठनशैली अपि परिवर्तनीया भवेत्। ते मां सङ्ग्लीश-शैल्या पाठयितुं प्रार्थितवन्तः। मध्ये मध्ये हास्यमपि योजितं यतोहि आवर्गं पाठः एव भवति चेच् ते पलायन्ते। नियततया तैरागम्यं खलु। सामान्यतया संस्कृतपठने कण्ठस्थीकरणमेव सर्वेषां क्लेशाय भियै च भवति। मया तु तस्मिन् विषये मा चिन्त्यतामित्युक्त्वा यथा नाविकः जनान् नयति पारं तथाहमपि भवतः नयामीति प्रोक्तम्। पश्यामाग्रे कथं भवतीति।
अयं लेखः केवलमवसानापनयनार्थमेवाग्रे किमपि लिख्यत एव। तावत् पर्यन्तं धन्यवादाः।

Leave a comment