कग्ग-पुस्तिकायाः आङ्गलानुवादं स्वीकृत्य पठामीति पुरोक्तं मया। प्रायशः त्रिंशत् पद्यानि अधीतानीति मन्ये। तत्र आधिक्येन विषादभाव एवानुभूयते। रचयिता मनसि विद्यमानान् प्रश्नान् पद्यरूपेण प्रत्यपादयत्। सारांशस्त्वयमेव – किमर्थं भिन्नजनानां भिन्नरुचिः, सङ्कटनानि, भिन्नपन्थाः इत्यादयः। सम्प्रदाये नः विषयोयं बहुधा चर्च्यते। एषामेकमेवोत्तरम् – कर्मानुसार एव सर्वं भवति। कोपि सर्वं न जानीयात्। केचन विषयाः पारेबुद्धि। अस्मत्सम्प्रदायीनां नूतनं किमपि न भवेत् पुस्तकादस्मात् परं नूनं पठितुं शक्यते। वीक्षामहे यदग्रे नूतनं किमपि भवेद् वेति।
अद्यावधि मद्विचारः।
Discover more from arabhati's arbhatyam :)
Subscribe to get the latest posts sent to your email.

Leave a comment