Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

दीपावलिशुभाशयाः

अद्य दीपावलीमहोत्सवः। कोलाहलेनाचर्यते भारते। वस्तुतः ह्यः एवासीदस्मदीयानां दीपावलिः। अत्र किमपि नोल्लिख्यते तर्हि अनाचरितमिवानुभूयते’तः लेखोयम्।

पुरा प्रायेण २०२१-तमे वर्षे दीपावलिनिमित्तं मया आर्याछन्दसि पद्यमेकं व्यरचि यदत्र प्रस्तूयते।

दीपेन यथा तिमिरं
नश्येत् सान्द्रं तथा वृषगिरिपतेः/
करुणादीपेन तमो
मनसश्शश्वद्विनश्यान्नः//

अर्थस्तु सरलः। यथा दीपस्य प्रकाशेन अन्धकारः नश्यति तथा वृषगिरिपतेः इत्युक्ते गोविन्दस्य करुणादीपात् अस्माकं मनसि विद्यमानं तमः विनश्यादिति प्रार्थना। अस्मिन् समये प्रायः दयाशतकार्थबोधनं प्राचलदिति मन्ये ततः एव प्रेरणा।

दीपावलिशुभाशयास्सर्वेभ्यः। वाञ्छितं सर्वं सर्वे प्राप्नुयुरिति रमासखं प्रार्थये।


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading