अद्य किञ्चन पद्यं रघुवंशात् स्वीकृत्य तदर्थमालोकयाम यस्मादुपमा कालिदासस्येत्युक्तिः किमर्थं युज्यत इति विद्म। पद्यमिदमुपमामुदाहरतीति वक्तुमीश्महे। रघुवंशे सप्तदशे सर्गे विद्यतेऽयं पद्यम्।
अतिथिं नाम काकुत्स्थात् पुत्रमाप कुमुद्वती।
पश्चिमात् यामिनीयामात् प्रसादमिव चेतना।।
Translation – Kumudvati, much like the mind finding joy in the twilight hours, bore a son from Kusha.
Just as the mind experiences heightened tranquility during those brAhma-muhurta moments, Kumudvati, in giving birth to Atithi, is imbued with a sense of joy and contentment!
कुमुद्वती काकुत्स्थात् अतिथिं नाम पुत्रम् आप (यथा) चेतना पश्चिमात् यामिनीयामात् प्रसादम् (आप) इति अन्वयः। श्लोकार्थस्सरलः। रात्रेः अन्तिमः यामः ब्राह्ममुहूर्थरिति प्रसिद्धः। अमुष्मिन् काले बुद्धेः तीक्ष्णता भवतीत्यपि प्रसिद्धः अतोत्र यथा बुद्धिः रात्रेः अन्तिमयामात् प्रसन्नतां याति (तीक्ष्णतारूपेण) तथा कुमुद्वत्यपि कुशात् प्रसन्नतां याति (अतिथिनामकपुत्ररूपेण) ।
चेतना इत्युक्ते बुद्धिः। बुद्धेः वैशद्यं ब्राह्मे मुहूर्ते भवतीति प्रसिद्धिः। तादृशमेव कुमुद्वत्यपि पत्युरतिथिनामकं पुत्रं प्रापेत्युपमात्र।
कुमुद्वती – कुमुदनागस्य भगिनी वा कुमुदानि सन्ति अस्याः वा
काकुत्स्थः – ककुदि तिष्ठतीति वा कं (सुखं) कौतीति वा ककुत्स्थः, तस्यापत्यं पुमान्
चेतना – बुद्धिः
प्रसादः- वैशद्यम् (Clarity)
अत्रेतोपि वैशिष्ट्यमस्ति। उपमानोपमेयोः लिङ्गविभक्तिवचनसमानता भवेत्।उपमालङकारे उपमानम्, उपमेयमद, साधारणधर्मः, उपमावाचकः चेति भवन्ति।
अस्मिन् श्लोके उपमानानि -> चेतना, यामिनीयामात्, प्रसादम्
अस्मिन् श्लोके उपमेयानि -> कुमुद्वती, काकुत्स्थात्, अतिथिम्
साधारणधर्मः -> प्रसन्नता
उपमावाचकः -> इव
This parallel between the mind’s serene state and Kumudvati’s emotions showcases Kalidasa’s prowess in drawing parallels that resonate beyond the literal. By ingeniously intertwining the concept of time with human emotions, Kalidasa transcends the ordinary and ushers us into a realm of profound understanding.


Leave a comment