तेनालिरामस्य काचित् कथा अत्र उल्लिख्यते यन्मया यदृच्छया वीक्षितम्।
पुरा विजयनगरसाम्राज्यं आगतः कश्चन पण्डितः। स्वस्य ज्ञाने पाण्डित्ये च महान्तं गर्वम् अनुभवति स्म। सर्वान् अन्यपण्डितान् वादे पराजित्य सर्वज्ञ इति नाम प्राप्तं तेन पण्डितेन।
राजा कृष्णदेवरायो विजयनगरं शशास। स उचितानतिथिसंत्कारान् विधाय पण्डितस्य आगमनकारणमपृच्छत्। सोतिथिपण्डितो विजयनगरस्थैः पण्डितैस्सह विवादं कर्तुमिच्छतीति स्वस्याशयं प्राकटयत्। अतः राजपरिषदि विवादार्थं सर्वान् पण्डितानाह्वयते स्म। तेनातिथिपण्डितेनैतदप्युक्तं यद्वादविषयस्तु यः कोपि भवतु तस्य सम्मतो भवेदिति यतोह्यात्मानं सर्वज्ञं मन्यते स्म सः पण्डितः। यदि स वादस्य विजेता तर्हि समग्रं विजयनगरं तस्मिन्नधीनं भवेदित्यप्यसूचयत्।
राजा कृष्णदेवरायो’ङ्गीकृत्य परेद्युः विवादो भवत्विति निरणयत्। राजा’चिन्तयत् यदस्माकं देशे’प्यनेके पण्डिता वर्तन्ते, ते’पि सर्वज्ञा अतः पराजयस्य न कोपि अवसरो भवेदिति। परन्तु विजयनगर-पण्डिता भीताः। अतिथि-पण्डितस्या त्मविशवासं वाक्-कौशलमहङ्कारं च वीक्ष्य पराजयाभिमुखाः सन्तः विवादे भागं वोढुं नैच्छन्।
राजा किमत्र न कोपि विद्वान् यो वादं कर्तुं समर्थ इति खिन्नः। तदा रामस्संवृतां घटनां श्रुत्वा वादे भागं वोढुमैच्छत्। रामः किं कुर्यादिति यद्यपि राजा’चिन्तयत् तथापि अनन्यगतिकस्सन् रामस्य साहाय्यं स्वीचकार।
विवाददिने वादविषयः क इति पण्डिते प्रश्नं पृष्टवति रामः “तिल-काष्ठ-महिष-बन्धनम्” इति विषये चर्चयामेत्यवदत्। अतिथिपण्डितस्तु दिक्भ्रान्तो यतोहि तेनेदृक् ग्रन्थो न श्रुतपूर्वः। स्वस्य प्रमादो ज्ञातः। अस्मिन् देशे स्वस्मान्न कोपि विद्वान् भवेदिति अहङ्कारेणाचरितमित्यपि ज्ञातमतो राजानमेवमवदत् – मया अयं ग्रन्थः त्रिंशतो वर्षेभ्यः पूर्वमधीतम्। एकदिनं स्वीकृत्य विषयान् आलोक्य पुनः श्वः विवादयामः इत्यवोचत्।
राजापीदं याचनमङ्गीचकार यतोहि पण्डितस्तु अतिथिरतो राज्ञा मन्तव्यमेवेति स्थितिरन्यथा अतिथेरवमान इव भवेत्।
रामस्य विषये अपि राज्ञः आदरो वर्धितः। स निश्चप्रचं सर्वज्ञ इत्यचिन्तयत्। अपरस्मिन् दिने पण्डितो विवादाय नागतवानेव। स भीत्या पलायित इति श्रुतः। एतेन राजा बहु सन्तुष्टः। राममपृच्छत कः अयं ग्रन्थः? त्वया कथं ज्ञातम्? इति
रामः वदति – राजन्! तिलस्य काष्ठः – तिलकाष्ठः। महिषस्य बन्धनम् – महिषबन्धनम्। तावदेव इति। राजसंसदि सर्वे उच्चैः अहसन्। चतुरस्य रामस्य उत्तरं श्रुत्वा राजा परमानन्दः। रामाय पुरस्कारं अदात्। विजयनगरमपि रक्षितं रामस्य चातुर्येण।

Leave a comment