अद्य किञ्चित् पद्यं वीक्षितं यत्र कावेर्याः श्रेष्ठत्वं सुष्ठु प्रतिपादितम्। द्रमिडे कावेर्याः माहात्म्यं त्वधिकं वर्तते यतोहि तस्याः तीरे एव ननु रङ्गनाथः शेते। यथा वैकुण्ठे विरजा तथा ननु कावेरी भूलोके। अथ किल श्रीरङ्गपुरी भूलोकवैकुण्ठः इति ख्यातः?
काकारः कलुषं हन्ति वेकारो वाञ्छितप्रदः। रीकारो मोक्षदो नृणां कावेरीत्यवधारय।।
का, वे, री इति अक्षरत्रयं स्वीकृत्य कोर्थः इति पद्येन निरूपितम्। कोयं कविरिति न जाने ना वा कुत्रोपलभ्यत इति परमर्थं ज्ञात्वाग्रे सराम।
कलुषमित्युक्ते पापमतः ‘का’ इति प्रथमाक्षरं पापं नाशयति। ‘वे’ इति मध्यमाक्षरं यदस्माकमभीष्टं तद्ददाति। ‘री’ इति अन्तिमाक्षरं जनानां मोक्षं ददातीति कावेरी इत्यस्य पदस्यार्थः अवगन्तव्यः इति उच्यते। अनेन आपगायाः अस्याः माहात्म्यं व्यक्तम्।
कवेः सामर्थ्यमपि प्रशंसनीयमित्युक्त्वा लेखोयं समाप्यते। शुभं भूयात् सर्वेभ्यः।

Leave a comment