मया पुरातनपत्रिकायां पद्यं किञ्चिद् वीक्षितं यत् पठित्वा मन्दस्मितेन कियत् सत्यमिति चिन्तितम्।
परोपदेशवेलायां सर्वे व्यासपराङ्कुशाः। स्वस्वानुष्टानसमये मुनयोपि न पण्डिताः।।
वस्तुतः प्रायशः अस्मिन् गणे’हमपि स्याम्। परेषामुपदेशसमये सर्वे जनाः व्यासवदाचरन्ति इत्युक्ते एवं करणीयं, वेदाः अनुसरणीयाः सन्ध्यावन्दनादिनित्यकर्माणि कार्याणीति उपदेशं तु सम्यक् कुर्वन्ति परमनुष्ठानकाले किं कुर्वन्ति? सन्ध्यावन्दनमपि न कुर्वन्ति, पलाण्डुलशुनादिकं खादन्ति so पाषण्डवदाचरन्ति। उपदेशः तु येन केनापि क्रियते परन्तु यदुपदिश्यते तदनुस्रियते वा इति प्रश्नः। अत्रानुसरणमेव प्रामुख्यमिति आचारः अतिमुख्यः इति निरूपितमतः अधुनारभ्य यद् वदाम तदेवानुसराम नो चेत् किमपि नोपदिशामेत्युक्त्वा लेखोयं समाप्यते।
In essence, this verse can be summarized as: Either practice what you preach, or preach only what you practice! 😉
पराङ्कुशस्तु शठकोपो यो द्रमिडे ‘नम्माल्वार्’ इति प्रसिद्धः। ते आल्वार-गोष्ठ्यामपि वर्तन्ते आचार्य-गोष्ठ्यामपि वर्तन्त इति तेषां वैशिष्ट्यम्। अमुष्माज्ज्ञायते यत् पद्यमिदं श्रीवैष्णवप्रत्रिकातः उदाहृतः इति।
शुभं भूयात्।

Leave a comment