Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

हास्यम्

पुनः पद्यं कञ्चिद् विक्षितं यदत्रोल्लेखनीयमिति मे मतिः।

वैयाकरणकिरातादपशब्दमृगाः क्व यान्ति संत्रस्ताः । 
ज्योतिर्नटविटगायकभिषगाननगह्वराणि यदि न स्युः ॥ सुभाषितरत्नभाण्डागारम्।

Translation – Terrified by the hunter in the form of a grammarian, where would the deer in the form of corrupted words go if there were no caves in the form of the mouths of astrologers, actors, paramours, singers and physicians.

अन्वयः – वैयाकरणकिरातात् संत्रस्ताः अपशब्दमृगाः क्व यान्ति यदि ज्योतिर्नटविटगायकभिषगाननगह्वराणि न स्युः?

इदं पद्यं निशम्य “LOL” इत्येव मत्प्रतिक्रिया। अत्र व्याकरणांशान् वीक्षामहे।
वैयाकरणः एव किरातः इति रूपकम्
अपशब्दः एव मृगः इति रूपकम्
ज्योतिर्नटविटगायकभिषगाननगह्वराणि – ज्योतिर्नटविटगायकभिषजः इति इतरेतर-द्वन्द्वः।
आननम् एव गह्वरम् इति रूपकम्
ज्योतिर्नटविटगायकभिषजाम् आननगह्वरमिति षष्ठी-तत्पुरुषसमासः।

भाषाशुद्धिं प्राप्तुं लक्ष्मीहयग्रीवं वन्दामहे। तदैव कदभ्यासेनापि कस्यचिद् विषयस्य तलस्पृग् भवेम परं तस्य नमनेन कुतः कदभ्यासो’तः सुष्ठ्वभ्यासः एव भवेत्।।देवं हयग्रीवमहं प्रपद्ये इति भणित्वा लेखोयं समाप्यते। शुभं भूयात्।


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading