संस्कृते लौकिकन्यायाः प्रतीताः। अस्मिन् लेखे श्वश्रूनिर्गच्छोक्तिन्यायं पश्येम यतोहि नाम निशम्यैव भवेत् तत्र किमपि चित्तरञ्जकमिति ज्ञातुं शक्नुयाम।
कश्चित् याचकः किञ्चिद्गृहं जगाम यत्र स्नुषा ‘इतः निर्गच्छ! नास्ति किमप्यत्रेति’ परुषमुवाच। खिन्नो याचकस्ततो निर्जगाम तदा श्रवश्रूः गेहाद् बहिरागत्य संवृतं सर्वं विज्ञाय स्नुषायै चुकोप। अनन्तरं याचकं पुनर्जुहाव। इदं श्रुत्वा याचकस्सन्तुष्टः । तेन चिन्तितं स्त्रीयं किमपि दद्यादिति। तस्मिन् पार्श्वे याति सति श्वश्रूरुवाच “हे याचक! अहमेव स्वामिनी गृहेऽस्मिन्नस्या नास्ति कोप्यधिकारस्त्वामितः प्रेषयितुमतोऽहमधूना वदामि – “तुभ्यं किमपि न दद्याम्। याहीतः”।
पुनः lol इत्येव वक्तुमिच्छामि। श्वश्रोः आचारस्सुष्ठु प्रतिपादितो ननु न्यायेऽस्मिन्।:)
अस्य न्यायस्य प्रयोगः – सरलपद्धत्या साधितं कार्यं दूषयित्वा यदि असरलपद्धत्या क्रियते समानफलायै तर्हि न्यायस्यास्योदाहरणमुच्यते।
Translation – The maxims in Sanskrit are among my favorites. This one is particularly funny as it mocks mother-in-laws. Once, a beggar reached a home for alms, and the daughter-in-law sent him away without giving anything. The mother-in-law immediately came out of the house, scolded the daughter-in-law for acting on her own without consultation, and called the beggar back. The beggar was happy, assuming the lady was going to give him something, but the mother-in-law said, “Hey, I am the authority in this house, not my daughter-in-law. So I am saying now, ‘get lost!’”
Lol, isn’t that funny? When you can accomplish a task easily but still do it in a laborious manner for the same result, this maxim is quoted.


Leave a comment