पुनः शिक्षापुस्तिकापठनेन प्रहेलिकेयं वीक्षितातः लिख्यते। किमर्थमस्य विवरणमत्रेत्युक्ते पठनवेलायाः अपेक्षया साम्प्रतमेव सुष्ठु-अवगमनं ममेति मे मतिः। प्रायः परीक्षाचिन्तया न सन्तोषेण पठितं परमधुना सम्यगास्वादयितुमीशे। साम्प्रति “wow” इति चिन्त्यते।
राज्ञः सम्बोधनं किं स्यात्? सुग्रीवस्य तु का प्रिया?
अधनास्तु किमिच्छन्ति? आर्तैः किं क्रियते वद।।
अनुष्टुप्-छन्दसि बद्धमस्य पद्यस्यार्थः – नृपं कथं वा आह्वयाम? सुग्रीवस्य प्रिया इत्युक्ते दाराः का? अधनाः इत्युक्ते धनरहितजनाः किम् इच्छन्ति? यदि एतेषां प्रश्नानाम् उत्तरं जानीमहे तर्हि प्रहेलिकायाः उत्तरं प्राप्नुमः। प्रहेलिका तु चतुर्थपादे वर्तते।
एकैकस्य उत्तरं पश्याम। नृपः देवसमानः अतः नृपं देव! इति सम्बोधयाम। सुग्रीवस्य दारानां नाम तारा या रामायणे बुद्धिमतीति ज्ञायते। धनरहितजनः धनमेव इच्छन्ति। अतः देव, तारा, धनम् इति उत्तरत्रयं प्राप्यते। अधुना चतुर्थं पादं पश्येम – दीनजनः किं कुरुते इत्युक्ते कष्टकालं सोढुं किं करोति इत्यस्य प्रश्नस्य उत्तरं प्रथमत्रयपादोत्तरयोजनेन प्राप्यते। देव+तारा+धनम् = देवताराधनम् इत्युक्ते देवता-आराधनम् इति प्राप्यते। देवतायाः आराधनेन आर्तानां मनश्शान्तिः भवतीति प्राप्तमुत्तरम्।
इयं प्रहेलिका सरला हृद्या च स्यात्। एवमेवाग्रे किमपि लक्ष्यते तर्हि नूनमङ्कयाम्यत्र।


Leave a comment