शतृ-प्रत्ययः कृदन्तेषु अन्तर्भूतः। एतदर्थं सूत्रं विद्यते -> “लटः शतृशानचावप्रथमासमानाधिकरणे”(३.२.१२४)।
शत्रन्तरूपाणां पुनरालोकनेन प्रश्ना अनेके सर्वेषां मनसि उदभवन्। यद्यपि परिचितविषयोपि च परीक्षायां मुख्यांशस् तथापि कदाचिद् रूपेषु भ्रमो जायते। अमुष्मिन् विषये बहुवारं विशदता प्राप्ता मद्गुरुतो’तो पूर्वं विस्मरणादुल्लेखनीयमिति धिया चित्रमिदं व्यरचि।
चित्रेण विषयनिरूपणं विषयस्य सुष्ठु प्रतिपादनं च भवेत्। इदमेवमेव व्यरचि। अत्र दोषाः लक्षिताः तर्ह्यहं सूचनीयेति प्रार्थये। शुभपठनं भूयात् सर्वेषाम्।

अभ्यासार्थमिमानि वाक्यानि शत्रन्तमुपयुज्य एकीकुरु।
१) रामः वनं अगच्छत्। पतिव्रता सीता रामम् अन्वसरत्।
२) लक्ष्मीः भक्तेभ्यः सम्पदः ददाति। तस्यै नमः।
३) बालकः प्रतिदिनं विद्यार्जनाय शालायां पठति। बालकेन सह पिता अपि पठति।
४) जरायां वृद्धः नृपः सर्वं विस्मृतवान्। वृद्धस्य नृपस्य नाम किम्?
५) माता रुचिकरं पचति प्रतिदिनम् । पुत्राः तस्याः भोजनमेव खादन्ति। ६) कृष्णः रथं रणे वेगेन चालयामास। तस्मिन् अर्जुनस्य महाविश्वासः।
७) द्रोणाचार्यः पाण्डवान् सर्वान् कलान् शिक्षयामास। द्रोणाचार्यस्य पुत्रः अश्वत्थामा।
८) कुम्भकर्णः सर्वदा कस्यचित् वरस्य कारणात् न्यद्रात्। रावणः तं जागरितुं महाप्रयासं चकार।
९) त्रिजटा तस्याः स्वप्नं सीतायै उवाच। विभीषणः त्रिजटायाः पिता।
१०) सुमित्रा निजपुत्रं रामेण सह प्रेषयामास। समुत्रायाः अनेके गुणाः/विषयाः अभ्यसनीयाः।


Leave a comment