नदीनां विषये पुरातनपत्रिकायां वीक्षितं यदत्र यथासमयं प्रस्तूयते। पूर्वमेव कावेरीमाहात्म्यविषये व्यलेखि यत्र कावेरीविरजयोः साम्यमुल्लिखितं स्यात्। तस्य लेखस्य कटकमपि योज्यते’नेन लेखेन।(Cauvery article link)
भारते नदीनां मुख्यस्थानमस्ति, देवतारूपाणां तासां सपर्या क्रियते। साम्प्रतं नर्मदासरितः विषये’पाठि या भारते गुजरातमहाराष्ट्रमध्यप्रदेशेषु प्रवहति। अस्याः प्रथमं पद्यमत्र –
नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी। धारयेत् सर्वभूतानि स्थावराणि चराणि च।।
नर्मदाख्याधुनी नदीषु श्रेष्ठा, इयं सर्वं पापं प्रणश्यति। सर्वेषाम् जीवात्मनां (जलस्थाः वा भूतलस्थाः वा) पोषणं कुरुते सा इति अर्थः। अस्मादस्याः वैशिष्ट्यं निरूपितमस्ति।
द्वितीयं पद्यम् चतसृणां नद्यानां तोलनं कृत्वा नर्मदायाः कीदृशी प्रभावो वर्तते इति विव्रियते।
त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम्। सद्यः पुनाति गाङ्गेयं दर्शनादेव नर्मदम्।।
सरस्वतीनदी त्रिवारमज्जनेन जनान् पुनाति। यमुनानदी सप्ताहं यावत् मज्जनेन पुनाति जनान्। एकवारमज्जनेनैव पुनाति गङ्गा परं नर्मदा तु दर्शनेनैव जनान् पुनाति। अस्मात् अमुष्याः नद्याः प्रभावः सुष्ठु प्रतिपादितः।
मया अद्यावधि नर्मदा न दृष्टा। कदाचित् भाविनि काले भवेदिति विश्वसीमि यस्मादहमपि भवेयं नर्मदापूता। नर्मदामात्रे नमः।
शुभमेव भूयात् सर्वेषाम्।


Leave a comment