ऐषमः कुसुमपुस्तकमाधारीकृत्य यूनः पाठयामीति पूर्वमेवोक्तम्। मह्यं बहु रोचते’पि। गते सप्ताहे अर्धपुस्तके समापिते छात्राः परीक्षामलिलेखिषन्। तदर्थं झटिति प्रश्नपत्रिका निर्मिता परमयं जालपुटवर्गः तर्हि कथं वा सरलतया प्रश्नपत्रिका तेभ्यः दीयते इति चिन्तितं तदा अजगरतन्त्रमुपयुज्य झटिति जालपुटपत्रं निर्माय प्रश्नाः तत्र योजिताः।
अमी मामप्राक्षुः यत् उत्तरमहं ज्ञास्यामि उत न? मया तु नैवेत्यवादि यच्छ्रुत्वा सन्तुष्टाः ते। वस्तुतः तादृशतन्त्रनिर्माणार्थं नासीत् समयो मम।
तज्जालपुटपत्रमधः। भाविनि कदाचित् प्रश्नान् परिवर्तयामि। अधुना ये केपि प्राथमिकस्तरच्छात्राः इमां परीक्षां प्रयतितुं शक्नुवन्ति।

Leave a comment