अद्य चाटश्लोकः कश्चिदवलोक्यते यो मद्दृष्टिगोचरे पतितो’कस्मात्।अत्र शास्त्रवादिनः कौशल्यं प्रशंस्यते श्लेषेण।
अर्थाहरणकौशल्यं किं स्तुमः शास्त्रवादिनाम्।
अव्ययेभ्योपि ये चार्थान्निष्कर्षन्ति सहस्रशः॥
अन्वयः – शास्त्रवादिनाम् अर्थाहरणकौशल्यं स्तुमः किम्? यैः अनेकशः अर्थाः अव्ययेभ्यः अपि निष्कर्षन्ति।
अर्थः इति पदस्यार्थद्वयम् – Meaning, Money. अव्यय-पदस्याप्यर्थद्वयम् – indeclinable, Miser. अधुना शास्त्रवादिनाम् अर्थाहरणकौशल्यं चेत् साक्षादर्थस्य वा धनस्य वेति स्वीकर्तुं शक्नुमः। तैः शास्त्रवादिभिः अव्ययेभ्यो’पि इत्युक्ते साक्षादव्ययपदेभ्यो वा कृपणेभ्यो वा अर्थाः (वा धनम्) निष्क्रष्टुं शक्यते।
This pun is better appreciated in Sanskrit, but here is a rough translation: What can we praise about the extraction skill of those knowledgeable in the shastras? They manage to extract meaning—or money—even from indeclinables/misers. The pun lies in the dual meaning of the words ‘artha’ (meaning/money) and ‘avyaya’ (indeclinable/miser).
ईदैगुत्तमं श्लेषान्वितं पद्यं प्रपठ्यावगन्तुं संस्कृतज्ञानमनिवार्यमतो विनालस्यमधीयतामियं गीर्वाणभारतीत्युक्त्वा समाप्यते। शुभं भूयात्।


Leave a comment