Hey peeps , what’s a better way to kick off Sunday than with some inspiring wisdom? It’s always healthy to revisit these teachings from time to time to keep us grounded. Here’s a verse my Guru taught me, so let’s switch to Sanskrit now.
सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः। तत्र सौरभनिर्माणे चतुरश्चतुराननः।।
इदं पद्यं मद्गुरुणा कस्मिंश्चिद् वर्गे अपाठि। पद्यं तु सरलमेव परमर्थः गभीरः। नन्वयं सर्वत्र वर्तते। कुतः इदं पद्यमिति न जाने।
अन्वयः – सौवर्णानि सरोजानि निर्मातुं शिल्पिनः (अनेके) सन्ति। (परन्तु) तत्र सौरभनिर्माणे चतुरः(केवलः) चतुराननः।
अस्यार्थः – शिल्पिनः ये सन्ति ते कथञ्चित् तेषां सामर्थ्येन सुवर्णपद्मानि निर्मातुं शक्नुवन्ति। तानि द्रष्टुमपि सुन्दरानि भवन्ति। परन्तु तादृशेषु कृत्तिमेषु पद्मेषु सुगन्धः भवति किम? नैव। सुगन्धं योजयितुं शक्नुवन्ति किमिमे शिल्पिनः? नैव। तादृशे पद्मे सौरभं योजयितुं केवलः विधाता एव शक्नुयात्। यतोहि अमुष्मिन्नेव तादृशः प्रभावः वर्तते।
अस्मात् ज्ञायते यत् वयं कदाचित् गर्वेण सर्वज्ञाः इति चिन्तयेम। अस्मत् नास्ति कोपि श्रेष्ठः इत्यपि परं सर्वदा अस्मत् कोपि प्रभावशाली भवेत्। ईदृक् चिन्तनं नः अधः एव पातयेत्। भगवन्तं स्मृत्वा सर्वमस्य कृपा इति कृतज्ञताभावेन भवेम चेत् जीवनं सुकरं स्यात्। इदमेव खलु भर्तृहरिणा “ज्वर इव मदो मे व्यपगतः” इति नीतिशतकश्लोके अवोचत्।
अस्तु अद्य किञ्चिदधिकमेवाभूदुपदेशः इति तर्कयामि अतः समाप्यते साम्प्रतम् । शुभं भूयात्।


Leave a comment