अद्य संस्कृतेन किमपि लिख्यत इति ह्यः मयावादि अतोत्र कश्चिच्छ्लोकः यत्र भगवतस्स्मरणमेव महासम्पदिति उच्यते। अयं श्लोकः सन्दर्भानुसारं सामान्यतयापि सम्यक्भाति मे।
विपदो नैव विपदः सम्पदो नैव सम्पदः। हरिस्मरणं सम्पद् हरिविस्मरणम् विपत्।।
कुतः इदं पद्यमिति न जाने परं तथ्यमेव ननु। पद्यस्य अर्थः स्ववगमः स्यादतः अन्वयं वाधिकव्याख्यानं वा न वच्मि। कदाचित् मनसि अनेके विचाराः उद्भवन्ति, केचन विषयाः मनश्चिन्ताम् उद्पादयन्ति। अमुष्मिन् समये ध्यानं भगवदाराधनमेव भेषजमिति पूर्वजाः ऊचुः। अद्यापि मनश्चञ्चलसमये अध्ययने मग्ना भवेयमिति चिन्तितं तदा इदं पद्यं मम दृष्टिगोचरे आपतितम्। तर्हि भगवत्सङ्कल्पः एव यन्मया इदं पठ्यमिति स्वीकृतम्। “अस्तु” भगवत्स्मरणमेव सर्वभेषजमिति ज्ञातविषयस्य पुनर्ज्ञापनमभूत् मम। अतः इदमत्र अङ्कनीयमिति धिया लिखितम्।
अस्मात् नीतिः भगवत्स्मरणं सर्वासु अवस्थासु (न केवलं कष्टकाले) अस्मान् संसारसागरतरङ्गात् रक्षति। अद्य किञ्चिदधिकमेव जातः उपदेशः। :) यतोहि मम मनोभावना एव तादृशी। भवतु नाम। श्वः रामनवमी अतः कश्चित् श्लोकः उल्लिख्यते। द्रमिडचलच्चित्रे रामनाम एव वेदः इति कश्चिच्छ्लोकः विद्यते अतः रामनाम सर्वेभ्यः शुभमेव दद्याद्। कुत्रचित् मया पठितं यन्नृसिंहः एव पुनः रामावतारव्याजेनावातरदिति यतोहि नृसिंहावतारः तु सत्वरं समाप्तः। नृसिंहस्य खेदः जातः यतः जनान् सुपथि आनेतुमवकाशो न प्राप्तः इति अतः स एव पुनः रामो भूत्वा सर्वान् जनान् अरक्षदिति अतः एव नृसिंहस्थलेषु सर्वत्र हनुमतः सन्निधिरपि वर्तते। राममन्दिरे हनुमतः सन्निधिः तु न चित्रं परं किमर्थं नृसिंहक्षेत्रे इति प्रश्ने सति इदमेव कारणम् – उदाहरणार्थम् घटिकाचलम्, बेलगोल्ला इत्यादिषु स्थलेषु।
नृसिंहस्यापि भद्रः इति नाम रामस्य रामभद्रः इत्येव नाम अतः अनयोः साम्यं वर्तते एव। अयं नृसिंहरामः पातु नः।


Leave a comment