Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

समस्यापूर्तिः – गृहपाठ:

For those unfamiliar, Samasyā-pūrti is a well-known literary exercise in Sanskrit, where poets are challenged to compose a poem that fits perfectly into a given meter, without any grammatical errors. There are countless examples in Sanskrit literature, many of which are clever enough to make you chuckle or exclaim in surprise! There have been times when I wondered if I could ever attempt a Samasyā-pūrti myself—and perhaps God heard my thoughts, because my Guru assigned it to us as homework! Now, over to Sanskrit.

हनुमद्विषये पञ्चभूतान्युपयुज्य पद्यं शिक्षयित्वा मद्गुरुर् नः परीक्षितुं पुनरनुष्टुपि पादौ अदात्। अमू पादौ अधः। किमदः पद्यमिति ज्ञातुकामैः लेखोयं पठ्यताम् – https://arabhatee.com/2025/04/06/kamba-ramayana-poem/

चतुर्थप्रभवो वीरो द्वितीये मज्जितोऽप्यसौ ।” – गुरुणोक्तं यत् पूरणप्रत्ययान्तमुपयुज्यैव लेख्यमिति नास्तीति तथापि मया कथञ्चित् वैशिष्ट्यमानेयमिति निर्णीतम्। मया ज्ञायते यदस्मद्वर्गे कश्चित् पञ्चभूतान्युपयुज्य लिखेदिति।
मयान्यार्थः स्वीकृतः – चतुर्थप्रभवः इति किमर्थं पञ्चभूतमेव परं चतुर्षु भ्रातृष्वपि चतुर्थः चतुर्थप्रभवस्सयादिति निश्चित्य पद्यं व्यरचि। अधुना के ते चत्वारः भ्रातरः इति सर्वे जानीयुः।

मत्प्रथमप्रयत्नस्सयात् – शत्रुघ्नो भरते भक्त्या प्रथमं रामकिङ्करः। अर्थात् चतुर्थजन्मा शत्रुघ्नः द्वितीये जाते भरते भक्त्या मज्जितोप्ययं प्रथमं रामभृत्यः इत्युक्ते सर्वे परब्रह्मशेषा इति निरूपणम् । अनन्तरं कथञ्चित् तृतीयपदमप्यानेयमिति निर्णीय गुरुणा सह सम्भाष्य “तृतीयसहजो भक्त्या प्रथमं रामकिङ्करः।।” इत्यलेखिषम्।

अधुना सम्पूर्णपद्यमेवमस्ति –
चतुर्थप्रभवो वीरो द्वितीये मज्जितोऽप्यसौ ।
तृतीयसहजो भक्त्या प्रथमं रामकिङ्करः।। इति शत्रुघ्नविषयेऽभूत्।

जीवने बहवो विघ्नाः निराशाः परमीदृक्षेण पद्यरचनाप्रयासेन क्षणं चित्तानन्दं भवेत्। एवमेव ममान्यप्रयत्ना अपि स्युरिति हयग्रीवं नत्वा प्रार्थये। शुभं भूयात् सर्वेभ्यः अस्मिन् शुभे दिने :)


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading