यथापद्धति पुरातनपत्रिका पठिता यत्रेदं पद्यं वीक्षितं यत् हृदयहारि अपि तर्हि अत्र अङ्कनीयं खलु?
सर्पाः पिबन्ति पवनं न च दुर्बलाः ते शुष्कैः तृणैः वनगजाः बलिनः भवन्ति।
कन्दैः फलैः मुनिवराः क्षपयन्ति कालं सन्तोष एव पुरुषस्य परं निधानम्।।
शरीरपुष्ट्यर्थं न केवलं भोजनमावश्यकं परं सन्तोषः एव आवश्यकः इति अतिमुख्यपूर्वज्ञातविषयस्य पुनर्ज्ञापनम्। अत्र उदाहरणानि दीयन्ते – सर्पाः वायुभक्षिणः तथापि बलिनः। वनकरिणः केवलं शुष्कतृणमतित्वा बलशालिनः। कानने निवसन्तः मुनयः फलानि खादित्वा कालं यापयन्ति बलवन्तः सन्तः। कथमिदं साध्यम्? यतोहि तेषां मनसि नास्ति कापि चिन्ता। ते निश्चलमनसा सन्तोषेण सन्ति अतः एव सम्यक् जीवन्तीति तात्पर्यः।
Translation for those unfamiliar with the language: Snakes live on air but are still strong, just like forest elephants that thrive on dried grass. Sages live in the forest, eating only fruits and vegetables, yet they remain strong! The reason is that more than what you eat, being happy is paramount for a healthy life. So be happy and stay healthy, makkale!
यदा मत्परिचितमहिलायै इदमुक्तं तदा तया सर्पः अन्यान् दशति, वनगजः अपि कदाचित् सर्वं मदेन नाशयति, मुनयः शापं ददति अत एव सन्तोषेण जीवन्तीति अवादि यच्छ्रुत्वा कदाचित् उत्तमविषयान् बोधयामश्चेदपि जनानां मनः विपरीतमेव चिन्तयतीति निर्णीतम्। अधुना अमुष्य लेखनसमये मन्दहासेन लिखामि यतोहि कियत् विचित्रं किल मनुजानां चिन्तनम्? उत्तमेविषये’पि अनुत्तमान्वेषणमपि स्यातदेका कला।
भवतु नाम। सर्वे सन्तोषेण सम्यक् जीवेयुः इति रमासखं प्रार्थये। शुभं भूयात् सर्वेभ्यः।
Btw, a sneak peek into my second project here — can you guess what it is? I know I have to write about my first one… soon on that.



Leave a comment