किं वदेयमद्य? नः केन्द्रे’द्य मम चतुर्थस्तरवर्गस्य अन्तिमदिनमस्य संवत्सरस्य यतोहि आगामिनि सप्ताहे दीर्घविरामकारणात् वर्गाः न भवन्ति तदनन्तरं वार्षिकोत्सवः (तदर्थं न गच्छेयम्)। अस्मिन् संवत्सरे भाग्यवशात् छात्राः संस्कृतपठने उत्सुकाः अपि च सदाचारज्ञाः। ममैव कुतूहलः आसीत् इमान् पाठयितुम्। अनेके प्रश्नाः, अन्यभाषया सह तोलनम्, ज्ञानार्जने आसक्तिः, परस्परादरः इत्यादयः मुख्यतया – light-hearted conversations इति वदेम खलु आङ्गले। इमान् पाठयित्वा तत्र तृप्तिरासीत् मम। अग्रिमे संवत्सरे’पि इमानेव पाठयामि चेत् ममापि सन्तोषः भवेत्।
अद्य इमे मां पारितोषिकरूपेण किमपि अदुः। तत्र किमिति नास्ति विषयः परं एषां तत्र भावना एव मह्यमानन्दसागरे पातयति। अद्यावधि संस्कृतपाठनाय मया किमपि न अपेक्षितं परं शिक्षणं प्राप्तमिति कारणेन दक्षिणा देया इति भारतीयचिन्तना उत्कृष्टा आसीत् तेषाम्। एषां संस्कृतज्ञानं वर्धेतामिति रमासखं प्रार्थये। तद्विहाय किं कर्तुं शक्नुयामहम्।
अत्र संस्कृतमातुः आशीरेव प्राप्ता मया इति भासते। पुरापि छात्राः पारितोषिकरूपेण किमपि अदुः परमस्मिन् संवत्सरे न जाने किमर्थम् I am getting emotional इदं प्राप्य। प्रायः जरायाः प्रभावः इति मन्ये। ;) पुष्पगुच्छस्तु मह्यं बहु रोचते तदपि पीतपाटलपुष्पस्य प्राप्तम् यस्य चित्रमधः। एवमेव स्वहस्तेन लिखितः सन्देशः – आ बहोः कालात् प्राप्ताः ईदृशः सन्देशाः सर्वे मम भित्तिमधुनापि अलङ्कुर्वन्ति। इदं नूत्नं सन्देशपत्रमपि तत्र योजयामि। एतादृशः व्यापारः घोरे संसारजीवने किञ्चित् कालं सुखं ददाति।
एवमेव नित्यं संस्कृतमाता मामनुगृह्णातु इति तामेव प्रार्थये। जयतु संस्कृतम्।







Leave a comment