पुरा मद्गुरुः शिवपार्वत्योः प्रथमसङ्गमावसरे जातं सम्भाषणरूपपद्यमिदमपाठयत्।
स्वेदस्ते कथमीदृशः प्रियतमे त्वन्नेत्रवह्नेर्विभो
कस्मात्कम्पितमेतदिन्दुवदने भोगीन्द्रभीतेर्भव ।
रोमाञ्चः कथमेष देवि भगवन्गङ्गाम्भसां शीकरैः
इत्थं भर्तरि भावगोपनपरा गौरी चिरं पातु वः ॥
शिवः पार्वत्याः मुखे स्वेदं निशाम्य कारणं पृच्छति, तृतीयनेत्राग्निकारणादित्युवाच पार्वती। किमर्थं शरीरं कम्पमानं वर्तते इति प्रश्नस्य शिवकण्ठस्थसर्पादित्युवाच पार्वती। किमर्थं रोमाञ्च इति प्रश्नस्य शिवशिरोगङ्गाशीकरैरिति चातुर्येण स्वस्य भावं गोपयित्वोत्तरं दत्तवती पार्वती पातु युष्मानित्यर्थः।
यदा गुरुणा पाठितं तदैव लक्ष्मीनृसिंहयोस्संवादः किञ्चिदेव परिष्कृत्य लेख्यमिति मया निर्णीतं परन्तु तत्सप्ताहगृहपाठरूपेण गुरुणैवेवमदायि – “इत्थं भर्तरि भावगोपनपरा लक्ष्मीश्चिरं पातु नः”। पद्यमिदं शार्दूलविक्रीडिते रचितम्। सामान्यतया अस्मिन् छन्दसि रच्यं चेत् मया दिनद्वयं स्वीक्रियते परं पूर्वेम किं कार्यमिति चिन्तितमितिकारणेन केवलं त्रिंशन्निमेषा एव स्वीकृताः।
मत्प्रयत्नोधः –
कस्मात् कम्पितमेतदब्धितनये भोगीन्द्रभीतेर्हरे
स्वेदस्ते मुख ईदृशः प्रियतमे भद्राक्षिवह्नेस्तव ।
रोमाञ्चः कथमेष ते चरणतो गङ्गाभसां शीकरैः
इत्थं भर्तरि भावगोपनपरा लक्ष्मीश्चिरं पातु नः॥
नृसिंहस्यापरनाम “भद्र” इति। तस्यापि नेत्रत्रयम् – तपन-इन्दु-अग्नि-नयनः इति स्वामिवेदान्तदेशिकः। विष्णोः शयनमादिशेषः। विष्णुपदीति गङ्गा प्रसिद्धा यतोहि तस्या उत्पत्तिस्थानं विष्णुपदात् त्रिविक्रमावतारे। अतः मत्कार्यं सुलभं जातम्। पद्यमिदं परिवर्त्य तुष्टाहमपीत्युक्त्वा समाप्यते। शुभं भूयात्। :)
Note: These verses are woven with tender words and gentle affection, capturing the quiet intimacy between lovers. Their beauty shines brightest in Sanskrit, and something special is often lost in translation. To truly experience their soft charm and heartfelt warmth, consider exploring a little Sanskrit yourself.


Leave a comment