Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

When AI Meets Complex Sanskrit: Oops!

अद्यत्वे सर्वे कृत्तिममतिमुपयुज्य संस्कृतं ज्ञातुं प्रयतन्ते। बहवो मां किमपि किमप्यन्विष्य प्रेषयन्ति । कृत्तिममतिना यद् विवृतं संस्कृते तत् सर्वं विना दोषान् रचितमस्तीति वदन्ति नाहं तत् सर्वं पठामि यतोहि नन्वहं पुरातनविद्यालयः 😀। व्याख्यानस्य किमु कार्यं तर्हि। सर्वे मुदिताः यथा स्वस्याविष्कारः इव।

अमुष्मात् कदाचित् पिपठिषवः कृत्तिममतिमुपयुज्य विषयान् जानीयुः। नास्ति तत्र कोपि क्लेशः लक्ष्यं तु विषयावगमनार्थं चेत् परं लक्ष्यं भाषाज्ञानं तर्हि निश्चप्रचं कृत्तिममतिः त्यक्तव्या। अमुष्याः प्रयोगेन स्वचिन्तनं नष्टं भवेत्। यदा मयाधीतं संस्कृतं तदा मया रूपाणि स्मृतिपथे स्थापनीयानीति निर्बन्धः। अधुना मुख्यरूपाणि द्रागेव वक्तुं शक्नोमि परं छात्राः अद्य जालपुटं वीक्ष्य वदन्ति। को वा कण्ठस्थं करोतीदमिति। यदि सुलभः पन्थाः वर्तते को वा कठिनमार्गं चिनुयात्। भवतु , सर्वे पठन्ति तदेवोत्तमविषयः इति आश्वासनमकुर्वि। At least सर्वे रूपाणि अन्विष्य वाक्यानि रचयन्तीति मुदितमनाः अहम् आसम्।

परमधुना कृत्तिममतिमुपयुज्य वाक्यानि अपि रचयन्ति तर्हि कोपि भाषां ज्ञातुं वा तस्य सौन्दर्यं ज्ञातुं वा प्रयत्नं किं कुर्यात्? केचित् न्यूनाः जनाः प्रायः कुर्युः परमनेके न कुर्युः। भाषायाः हननमेव तदनन्तरम्। कस्माच्चित् कालात् परं केषामपि ज्ञानं न भवेत् तर्हि यत् कृत्तिममतिः वदेत् तदेव वेदवाक्यमिवाचरेयुः इति क्षणकाले मम बुद्ध्या विपरीतं चिन्तितम्।

यदा आङ्गले वदति “परिवर्तनमनिवर्यम्” अतः अस्माभिरेव नः चिन्तनं भावना च परिवर्तनीयम् नो चेत् पृष्ठतः एव भवेमेति यदा चिन्तितं तदा मद्गुरुतः अस्य सप्ताहस्य गृहपाठः प्राप्तः यत्र प्रथमे प्रश्ने एव मम क्लेशः जातः – निर्दोषं करुत इत्युक्त्वा वाक्यमासीत् – “If मम मनः तव पादयोः पादुकाऽस्तु is changed to पादुकेऽस्तु (two पादुकाs), identify the error”. अत्र को दोषः इति बहुधा विचिन्त्य गुरुमेवाप्राक्षं यत् दोषो वर्तते किमु इति। आमित्युत्तरं प्राप्यापि न दोषं लक्षितुमशक्नवम् तदा लक्ष्मीहयवदनकृपया विद्युदिव मनसि “प्रगृह्यम्” इति अशरीरिवागिवोत्तरं स्फुरतिम्।

वर्गादनन्तरं मम कुतूहलः जातः यतोहि दिनद्वयमस्मिन् विषये चिन्तितं परं कृत्तिममतिः प्रष्टव्या इति चिन्तना नागता But even if I had, what’s the point? I wouldn’t actually learn anything that way!। यदि कृत्तिमतिमप्रक्ष्यं तर्हि ननु उत्तरं झटिति प्राप्स्यमिति ChatGPT, Perplexity, Claude, Copilot अप्राक्षं परं एतेन उत्तरं न दत्तम् यद्दत्तं तदनर्थकमेव । :) तदा मम प्रश्नस्य समाधानं प्राप्तम् – AI still gets tongue-tied with Sanskrit grammar—give it a few years, and maybe it’ll finally figure out where all the sandhis go! So, dear friends, until the robots catch up, it looks like we’ll have to hit the books and become Sanskrit pros the old-fashioned way.

मम बुद्धेः चातुर्यमपि मामानन्दसागरे अपातयत् यतोहि वर्गे’पि मां विहाय केनापि उत्तरं न दत्तमपि च मद्बुद्धिः कृत्तिमबुद्धेः अपेक्षया ज्ञानवती LOL, I just solved something that even AI couldn’t crack—now that’s what I call a wow moment!कीयती बुद्धिमती अहमिति (ahem!) चिन्तयित्वा लेखोयं लिख्यते। :)

अद्य किञ्चिद् गभीरमेव लिखितमिति भाति परं कदाचित् गभीरविषयाः अपि लेखनीयाः इत्युक्त्वा समाप्यते। शुभमेव भूयात् सर्वदा।


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading