Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

Moo-ving Tales of Friendship :)

मम पुरातनपत्रिकापठनमनुवर्तते। ततः पद्यमिदं वीक्षितं यत्र मित्रता इत्युक्ते का इति कविना स्पष्टीक्रियते उदाहरणेन। अस्य व्याख्यानं तु द्रमिडभाषया महापण्डितैः श्रीविल्लिवलनारायणाचार्यैः विवृतम्। (Today marks the Aradhanam of Villivalam HH. What better way to honor his memory than by reflecting on an article penned by his pUrvashrama brother and revered Guru?)

क्षीरेणात्मगतोदकाय हि पुरा दत्ता गुणास्तेऽखिलाः क्षीरोत्तापमवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः।

गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रापदम् युक्तं तेन जलेन शाम्यति  पुनः मैत्री सतां त्वीदृशी।।

अन्वयः -> पुरा क्षीरेण आत्मगतोदकाय हि ते अखिलाः गुणाः दत्ताः। क्षीरोत्तापम् अवेक्ष्य तेन पयसा(जलेन) स्वात्मा कृशानौ(अग्नौ) हुतः। मित्रापदं दृष्ट्वा तु तद् अभवत् उन्मनः पावकं गन्तुम्। युक्तं तेन जलेन शाम्यति। सतां मैत्री पुनः तु ईदृशी।

छन्दः – शार्दूलविक्रीडितम्

यदा क्षीरे जलं योजयति तदा क्षीरस्य स्वभावः जले’पि भवति। यदा जलमिश्रितक्षीरम् उष्णीक्रियते तदा क्षीरस्य तापं दृष्ट्वा तत् सोढुम् अशक्तं सत् जलं स्वात्मानं हुतरूपेण अग्नौ समर्पयति। अधुना मित्रस्य जलस्य आपदं दृष्ट्वा उत्कण्ठं सत् क्षीरं पावकं गन्तुम् उद्युक्तम् अभवत्। पुनः तदा जलेन सिच्यते तहि र्क्षीरं पुनः मित्रमेलनेन शाम्यति। क्षीरजलयोः मध्ये मैत्री एव ईदृशी। अमूदृक् मेत्री सतां भवति इत्युक्ते सज्जनानां मैत्री उत्कृष्टा भवति।

इदं पठित्वा कविं प्रशंसितुमिच्छामि यतोहि कल्पना ईदृशी न सामान्यानां भवति। मम तु ईदृशमित्रं नास्ति यतोहि आधुनिककाले सज्जनः एव नास्ति मद्विहाय 😀। अतः केवलः मालोलः एव मित्रम् ममेदृक्। अत्र कविः तु चतुरः सतां मैत्री इति अवोचत् अतः मित्राणि सन्ति चेदपि सन्तः नास्ति चेत् न गण्यन्ते।

प्रायः इदं मित्रदिने लेखनीयमासीत् August-मासे परमद्य पठितमिति कारणेन अद्यैव प्रकाशितम्।

शुभं भूयात् सर्वेभ्यः।

(Behold—a verse in the majestic Śārdūlavikrīḍita meter, where friendship is celebrated with poetic finesse!

Picture this: water and milk, two inseparable comrades. When water joins milk, it doesn’t just mix—it adopts all the virtues of its creamy companion, becoming richer, sweeter, and, let’s face it, far more popular at breakfast.

But then, trouble brews—quite literally. The fire is lit, and the milk begins to bubble with distress. Water, the ever-loyal friend, can’t bear to sit idly by. So, what does it do? It leaps into the flames, sacrificing itself to ease its dear friend’s suffering. Now that’s a friendship hotter than a Chennai summer!

Milk, deeply moved by this act of devotion, rises in solidarity—as if to say, “If you’re going down, I’m coming with you!” But then—sprinkle a bit of water back into the pot, and the milk, overjoyed at the reunion, settles down, its anger soothed, harmony restored.

The poet smiles and adds: This, dear reader, is the gold standard of friendship—but only with the noble. Not every companion qualifies. Only the truly virtuous friendships endure the heat and shine this bright.

Now, isn’t that a recipe for friendship worth savoring?)


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading