So, I’m in Bengaluru now, trying to get by with my super basic Kannada — mostly just throwing around the magic phrase “Tamil/Hindi Gothu?” (aka, “Do you speak my language or should I mime?” :)). After sweating like I ran a marathon in Chennai, this weather feels like a sweet, cool reward from the universe. Bonus: my appetite is back, which means jetlag has officially packed its bags and left town. 🎉
Since I’m chilling at my in-laws’ place (where the snack game is strong and the tea flows like a never-ending river), I found some time to reread a Chatusloka. And guess what? That’s today’s post — a fun, cheeky little chat between Krishna and Radha that’s guaranteed to brighten your day and put a big smile on your face!
यद्यपि पद्यरूपेण विरचितमिदं तु सम्भाषणमस्ति कृष्णराधयोः-
कोयं द्वारि? हरिः प्रयाह्युपवनं शाखामृगस्यात्र किम्? कृष्णोहं दयिते! बिभेमि सुतरां कृष्णादहं वानरात्।
राधे! ऽहं मधुसूदनो व्रज लतां तामेव पुष्पान्वितामित्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु नः।।
कृष्णः गृहमात्य द्वारस्य समीपे वर्तते तदा राधा पृच्छति – कोयं द्वारि? (कः अस्ति द्वारे? द्वार् इति रेफान्तस्त्रीपदम)
कृष्णः – हरिः
राधा – प्रयाहि उपवनम् । शाखामृगस्य अत्र किम्? (हरिः इत्युक्ते वानरः इति अर्थं स्वीकृत्य त्वं वनं गच्छ! अत्र किं कार्यं वानरस्येति वदति)
कृष्णः – दयिते, अहं कृष्णः इति कृष्णःवदति।
राधा – कृष्णाद् वानरात् सुतरां बिभेमि। (कृष्ण इत्यस्य कृष्णवर्णः इति अर्थं स्वीकृत्य कृष्णवर्णवानरादहं भीतिमनुभवामीति वदति)
कृष्णः – राधे! मधुसूदनः अहम्। इति कृष्णः उत्तरं वदति।
राधा – पुष्पान्वितां तां लतामेव व्रज। (मधुसूदनः इत्युक्ते भ्रमरः इति अर्थं स्वीकृत्य पुष्पभरितलतामेवाश्रय इति वदति)
एवं दयितया (प्रियया) निर्वचनीकृतः हरिः अस्मान् पातु इति पद्यं शार्दूलविक्रीडिते छन्दसि रचितम्। इदं पठित्वा नूनं सर्वेषां मुखे स्मितं भवतीति चिन्तयामि। मम तु मनः सन्तुष्टः जातः।
शुभपठनं सर्वेषाम्।


Leave a comment