Well, it’s time for us to enjoy a deeply emotive poetic verse—a blend of Śṛṅgāra (romantic) and Karuṇa (compassionate) rasas—that showcases Rama’s tender-hearted concern for Sītā’s comfort. Each line is an apostrophe to Nature, gently requesting it to ease her hardship during the forest journey.
पृथ्वि! त्वं भव कोमला दिनमणे! त्वं शैत्यमङ्गीकुरु
त्वं वर्त्मन्! लघुतां प्रयाहि पवन! त्वं खेदमुत्सारय ।
सान्निध्यं श्रय दण्डकावन! गिरे! त्वं गच्छ मार्गाद्बहिः
सीताऽसौ विपिनं मया सह यतो गन्तुं समुत्कण्ठते ॥ ~ उद्भटसागरः
(O Earth, be soft; O Sun, be gentle with your heat; O Path, become smooth; O Wind, drive away all fatigue.
O Dandaka forest, stay close; O Mountains, step aside—
for Sītā longs to journey with me through the forest)
मद्गुरुणा कस्मिंश्चिद् वर्गे’पाठि। अस्य पद्यस्य कविः उद्भटसागरः परं कस्मिन् ग्रन्थे इति न ज्ञायते। नः वर्गे ईदृक् यादृच्छिकपद्यं शिक्ष्यते गुरुणा। अत्र प्रसङ्गस्तु स्पष्टमेव – यदा सीता रामेण सह काननं यातुमुत्सुका तदा रामः करुणावान् भार्यायामतिप्रीतः कथं वा कोमलाङ्गा सा कठोरपरिसरं सोढुं शक्नुयादिति बाधितमनाः सन् विश्वे नैसर्गिकविषयाः कथं भवेयुरिति आज्ञापयति। आज्ञापयतीति मम मतं यतोहि ननु अयमेव परमात्मातः आदिष्टुमधीकारो वर्तते तस्य :) This interpretation appeals to me more.
अर्थः – हे पृथ्वि! त्वं कोमला भव यतोहि सीता राजकुमारी अपि च कोमलाङ्गातः भूतले मास्तु कण्टकाः वान्यबाधकवस्तूनि। हे सूर्य! त्वं तापजनकः परन्तु साम्प्रतं शैत्यं प्रसारय। हे मार्ग! त्वं द्राघीयान् मा भव यतोहि अधिकदूरं चलितुं न शक्यते सीतया। हे पवन! त्वं शीतवायुना आयासमपाकुरु। हे दण्डकावन! त्वं समीपमागच्छ येन सीतया दूरं न यातव्यम्। हे पर्वत! त्वं मार्गे’सि भोः अतः याहि मार्गाद् बहिः। इदं सर्वं मया आदिश्यते यतः सीता मया सह वनमागन्तुमुत्सुका।
Wow… if that isn’t true love, what is? मन्दहासेन पुलकाङ्किताभूवम्। कवेः कल्पनापि श्लाघनीया। ससीतः रामः नः पातु इति उक्त्वा समाप्यते।


Leave a comment