त्रिभ्यो दिनेभ्यः पूर्वं नभसि पूर्णिमा दृष्टा या सर्वाकर्षिणी यां वीक्ष्य सर्वे’स्याः सौन्दर्यं शशंसुः। ननु सा साधारणजनमपि कवीयते? भवतु नाम। द्वादशमासेषु चतस्रः पूर्णिमाः प्रसिद्धाः सौन्दर्यार्थम् – चैत्रपूर्णिमा, आषाढपूर्णिमा, श्रावणपूर्णिमा, कार्त्तिकपूर्णिमा चेति। महाकविना कालिदासेन चैत्रपूर्णिमा वर्णिता रघुवंशे। तादृशः प्रभावः अस्याः पूर्णिमायाः।
Now, सुन्दरकाण्डे पञ्चमसर्गे चन्द्रवर्णनमिति अस्ति। तत्र पद्यमिदं वीक्षितं यस्मात् पुनः पूर्णिमा मनसि आगता।
हंसो यथा राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः।
वीरो यथा गर्वितकुञ्जरस्थश्चन्द्रोपि बभ्राज तथाम्बरस्थः।।
While I am partial to describing the Moon as Pūrṇimā, in Sanskrit and in astrology the Moon is generally considered masculine. In this padya too, Maharishi Vālmīki portrays the Moon in the masculine form, attributing to it qualities of strength and valor befitting a man.
अर्थः(यतोहि अन्वयस्तु सरलः) -> राजतपञ्जरे स्थितः हंसः यथा, मन्दरपर्वतगुहायां स्थितः सिंहः यथा, गर्वितकुञ्जरे स्थितः वीरः यथा, तथा चन्द्रः अपि अम्बरे राजते इति। अत्र उपमां पश्य – हंसः , सिंहः, वीरः। So apt and so beautiful!
व्याकरणांशाः – राजतम् – silver. राजते पञ्जरे तिष्ठतीति राजतपञ्जरस्थः इति उपपदसमासः। (and so it is with all other स्थ-ending words)
Translation – Like a swan in a silver cage, a lion in the Mandara mountain caves, and a warrior astride an elephant, the Moon shone resplendent in the sky!
No wonder Kalidasa said “मन्दकवियशःप्रार्थी गमिष्याम्युपहास्यताम्” and “मणौ वज्रसमुतकीर्णे सूत्रस्येवास्ति मे गतिः” Here is our Ādikavi in full poetic flight — enough to make our Mahākavi nervous! ;)
So next time you see a full Moon adorning the sky like a queen, think of me — and of this post, and these verses :=)
शुभमेव भूयात् सर्वेभ्यः।


Leave a comment