सामान्यतया शुक्रवासरसायं संस्कृतपठनमेव मम मनःप्रशमनाय साहय्यं कुरुते। मद्गुरुणा पाठितं पद्यमेवावालोकि तदा इदं गभीरपद्यं दृष्टिगोचरे आपतितम्। तदैव निर्णीतं मज्जालपुटमपीदं पद्यमलङ्करोतीति :)
अहङ्कारो धियं ब्रूते मैनं सुप्तं प्रबोधय। उत्थिते परमानन्दे न त्वं नाहं न वै जगत्॥
Translation – Ego warns the intellect: ‘Do not rouse the sleeping Self’. When it awakens into supreme bliss, there is neither You, nor I, nor the world.’”
अहङ्कारः इति भावः बुद्धिं वदति – भोः एनं निद्राणम् अज्ञानात्मानं मा उत्थापय। स एवमेव निद्रातु।यतोहि यदा स उत्थितः तर्हि तत्वज्ञः सन् अन्तर् स्थितस्य परमात्मनः ज्ञानं प्राप्नोति। तदनन्तरं अहङ्कारो वा त्वङ्कारो वा किमपि न भवति न जानीयादप्ययम्। इदं तु प्रायोहं मत्सम्प्रदायानुसारं वदामि यतोहि अस्मदीये परमात्मा भिन्नः जीवात्मा भिन्नः। जीवात्मा परमात्मानं प्राप्य सानन्दं परमपदे वसति।
जीवने कदापि अहङ्कारो मास्तु इति तात्पर्यम् यतोहि आध्यात्मिकजीवनार्थमहङ्कारः प्रतिबन्धः। न केवलं तत् सामान्यजीवने’पि अग्रे गमनार्थं विघ्नं करोति। अहङ्कारो नाशाय भवति। भगवत्स्मरणमेवास्मासु सद्भावं जनयेदिति उक्त्वा समाप्यते।
शुभमस्तु।


Leave a comment