नीतिज्ञा नियतिज्ञा वेदज्ञा अपि भवन्ति शास्त्रज्ञाः । ब्रह्मज्ञा अपि लभ्याः स्वाज्ञानज्ञानिनो विरलाः ॥ ~ अप्पय्यदीक्षितः
इदं पद्यं सर्वैः पठितव्यं ज्ञेयं च। विश्वे अनेके जनाः सन्ति येषां नीतिज्ञानं वर्तते, नियतिज्ञानं वर्तते, वेदज्ञानं वर्तते, शास्त्रं सम्यक् जानाति, ब्रह्मज्ञानं वर्तते परन्तु स्वस्य अज्ञानस्य ज्ञानं तु विरलानामेव भवति इत्युक्ते नाधिकाः जानन्ति। तदा जानन्ति चेदपि मम दृष्ट्या अहङ्कारः तदनुमन्तुम् आज्ञां न कुर्यादतः जनाः प्रायः निषिद्धवर्धनाः भवन्ति। स्वाज्ञानज्ञाः अपि च अहङ्काररहिताः इति भाव्यम्। केचिद् वदेयुः – अपि ज्ञानस्य मापनमपि भवेत्? पठनाय विषयाः अनेके परं पारङ्गताः इति भवति वा? भवतु नाम – अस्मत् कोपि अधिकं जानीते चेत् ते तद्विषयज्ञाः एव। यदा लेखितुं प्रारब्धं तदा अन्यत् किमपि लेखितुमैच्छं परं यल्लिखितं तदन्यत्।
So what am I really saying? Even when you know you don’t know, ego won’t let you admit it. Instead, it convinces you you’re on par with others—or worse, makes you drag truly intelligent people down to your level just so you feel better. That’s a loss for you! And that’s exactly what puts such people in the group called svājñānajñāninaḥ!
Alright makkale, ending the post here—ponder on that one!
शुभं भूयात्।


Leave a comment