पुरा राजसंसदि कवयो विपश्चितश्च सम्मेल्य काव्यादिविषये चर्चां चक्रुः। “काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्” इति वर्तते ननु। तदा “समस्यापूर्तिः” इति कविनां मध्ये स्पर्धा आसीद् यत्र पादं किमपि दत्त्वा पद्यरूपेण पूर्यतामिति भवेत्। एतदर्थं संसकृतज्ञानमनिवार्यम्। कदाचिद्दत्ते पादे विरोधाभासोपि दृश्यते। कथंचित् पद्यं साधनीयम्।
तदा पुरा भोजराजसदसि अनेके कवयः राजन्ते यत्र कालिदासोपि अन्यतमः। सर्वे कवयः तस्मिन् असूयन्ति। सः जेतव्यः कथञ्चित्, सः यथा भोजराजप्रीतिपात्रं न भवेत् तथा करणीयमिति चिन्तयामासुः।
तदा राजसभायां कश्चित् शब्दः श्रुतः तदा कवयः कालिदासः सङ्कटे पातव्यः इति विचिन्त्य अयमर्थरहितः शब्द एव चतुर्थपादः अतः पद्यं विरच्यतामिति ऊचुः।भोजराजस्य कुतूहलो जातः, किं वा रचयेदयं महाकविरिति प्रतीक्षमाणः कालिदासमेव निर्निमेषं ददर्श। राज्ञः मनसि विद्यमानामाशां विज्ञाय बुद्धिमान् कालिदासोपि कवीनामाज्ञां स्वीकृत्य इदं पद्यं रचयामास इति कथा श्रूयते।असौ कथा सत्यं वासत्यं वेति न जाने परं सानन्दं पद्यमवलोकयाम।
राजाभिषेकाय जलं नयन्त्याः हस्तच्युतः स्वर्णघटोयुवत्याः।
सोपानमार्गेषु करोतिशब्दं टटण्टटण्टण्टटटण्टटण्टः।।
अर्थः – राज्ञः अभिषेकार्थं काचिद् युवतिः जलं घट्यां आनयन्ती वर्तते तदा अकस्मात् अस्याः हस्तात् घटः अधः पतति। तत्र सोपानं वर्तते इति कारणेन घटः सोपानमार्गे पतन् शब्दमिममकरोत् – टटण्टटण्टण्टटटण्टटण्टः।
एतत् निशम्य सर्वे मुदिताः मुख्यतया भोजराजस्य कालिदासे प्रीतिः अपरिमिताभूत्। सासूयाः कवयः विफलीभूताः कालिदासपराजययत्ने। यदा कथामिमां बाल्यकाले श्रुतं तदा कुतूहलेन अधीतम् तदनन्तरं बहुवारं छात्रेभ्यः बोधयित्वा साम्प्रतमत्रापि उल्लिखितम्।
It’s Friday, and while everyone else is finishing drinks, I’m finishing verses—the Kalidasa way! Who needs Netflix when Kalidasa is out here dropping verse-completion plot twists stronger than season finales? Happy Friday, happy reading, makkale! Godspeed!


Leave a comment